________________
तिनिरूपणे
RECERRORESEARS
दृष्टान्तेन तावच्चक्षुषोप्राप्यकारित्वं व्यवस्थापयतिअप्राप्यकार्यधिष्ठाना-सम्बद्धग्राहि लोचनम् ॥ अनुग्रहोपघाताभ्यां, विषयाद् भाव्यमन्यया ॥१६॥७४॥
चक्षुरमाप्यकारि अधिष्ठानासम्बध्धार्थग्राहकेन्द्रियत्वाद्, मनोवद्, अधिष्ठानेत्यादिविशेषणेन स्पर्शनादाविन्द्रियपददानेन च प्रदीपप्रभायां व्यभिचारः परिहतः, न चापयोजकत्वं सम्बद्वार्थग्राहकावे तस्य करवालजलावलोकनादिनोपघातानुग्रहप्रसङ्गात्, न चासिद्ध एव तस्योपघातानुग्रहाभावो भूयो भूयः सूरकरावलोकनेन जलावलोकनेन च दाहशैत्यलक्षणतदर्शनादिति वाच्यम्, अवलोकनानन्तरं चक्षुर्देशं प्राप्तेन मूर्तेन रविकरादिनोपघातस्य सम्भवाजलावलोकनादौ चोपघाताभावेनानुग्रहाभिमानात् स्वतस्तद्देशं प्राप्तेन च चन्द्रमरीचिनीलादिनाऽनुग्रहोऽपि भवत्येव, यदि च चक्षुः स्वत एवानुग्राहकोपघातकवस्तुनी संसृज्यानुग्रहोपघातौ लभेत तर्हि सूरकरावलोकनादिव करवालावलोकनादप्यभिघातः स्यात्, तदिदमाह-"लोअणमपत्तविसयं, मणोव्य जमणुग्गहाइसुन्नति ॥ जलसूरालोआइसु, दीसन्ति अणुग्गहविधाया ॥२०९।। डझेज पाविउ रवि-कराइणा फरिसणं व को दोसो ॥ मन्नेज अणुग्गह | पिवु-बघायाभावओ सोम्मं ॥२१०॥ गंतुंण स्वदेसं, पासइ पत्तं सयं व णियमायं ॥ पत्तेग उ मुत्तिमया, उवघायाणुग्गहा ₹ होजा ॥२११॥" [लोचनमप्राप्तविषयं, मन इव यदनुग्रहादिशून्यमिति ॥ जलपरालोकादिषु दृश्येते अनुग्रहविघातौ ॥ दयेत
प्राप्य रविकरादिना स्पर्शनमिव को दोषः॥ मन्येतानुग्रहमिवोपघाताभावतः सौम्य ॥ गत्वा न रूपदेशं, पश्यति प्राप्तं स्वयं वा नियमोयं ॥ प्राप्तेन तु मूर्तिमतोपघातानुग्रहौ भवेताम् ॥]॥१६॥ननु नयनान्नायना रश्मयो निर्गत्य प्राप्य च वस्तु रविरश्मय इव प्रकाशमादधति सूक्ष्मत्वेन तैजसत्वेन च तेषां वह्नयादिभिर्दाहादयो न भविष्यन्तीति चेत्, न, चक्षुषस्तैजसत्वस्यैवासिद्धेः, तथाहि
| व्यञ्जनाकग्रहनिरूपणे | चक्षुषोप्राप्यकारित्वव्यवस्थाप
नम् ॥
PPECRECIP
AnnanAAAAAAAAD
ES