SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ PECIPES गमविरोधोऽपि, यद्धर्मविशिष्टविषयावच्छेदेन भेदनयार्पणं तद्धर्मविशिष्टापेक्षयैव द्वित्वादेः साकांक्षत्वात्, अन्यथाऽतिप्रसङ्गादित्याशय यक्तिसिद्धा सूत्रार्थो ग्राह्यस्तेषां स्वसमयपरसमयादिविषयभेदेन विचित्रत्वादित्यभिप्रायवानाह-" परवत्तव्वयपक्खा, अविसद्धा तेस तेस अत्थेसु । अत्थगइओ अ तेसिं, विअंजणं जाणओ कुणइ ॥२-१८॥” परेषां वैशेषिकादीनां यानि वक्तव्यानि तेषां पक्षा अविशुद्धास्तेषु तेष्वर्थेषु सूत्रे तत्तमयपरिकर्मणादिहेतोर्निबद्धाः। अर्थगत्यैव सामर्थेनैव तेषामर्थानां व्यक्तिं सर्वप्रचादमूलद्वादशाङ्गाविरोधेन ज्ञको ज्ञाता करोति। तथा च 'जं समयं' इत्यादेर्यथाश्रुतार्थे केवली श्रुतावधिमनःपर्यायकेवल्यन्यतरो ग्राह्यः, परमावधिकाधोवधिकच्छवस्थातिरिक्तविषये स्नातकादिविषये वा तादृशसूत्रप्रवृत्तौ तत्र परतीथिकवक्तव्यताप्रतिवद्धत्वं वाच्यमेवमन्यत्रापीति दिक् । केवलनाणे केवलदंसणे' इत्यादिभेदेन सूत्रनिर्देशस्यैकार्थिकपरतैवेत्यभिप्रायेणोपक्रमते-" जेण मणोविसयगया-ण दंसणं णत्थि दब्बजादाणं ॥ तो मणपजवनाणं, नियमा नाणं तु णिदिटुं॥२-१९॥" यतो मनःपर्यायज्ञानविषयगतानां तद्विषयसमूहानुप्रविष्टानां परमनोद्रव्याविशेषाणां बाह्यचिन्त्यमानार्थगमकतापयिकविशेषरूपस्यैव सद्भावाद्दर्शनं सामान्यरूपं नास्ति, तस्मान्मनःपयोयज्ञानं ज्ञानमेवागमे निर्दिष्टं ग्राह्यसामान्याभावे मुख्यतया तहणोन्मुखदर्शनाभावात् । केवलं तु सामान्यविशेषोभयोपयोगरूपत्वादुभयरूपकमेवेति भावः। सूत्रे उभयरूपत्वेन परिपठितत्वादप्युमयरूपं केवलं, न तु क्रमयोगादित्याह(द्विषयभेदाढेत्यभिप्रायवानाह)-" चक्खुअचक्खुअवधिक-वलाण समयम्मि दंसणविअप्पा ॥ परिपठिआ केवलना-णदसणा तेण विय(ते) अण्णा ॥२-२०॥" स्पष्टा । चक्षुरादिज्ञानवदेव केवलं ज्ञानमध्ये पाठात् ज्ञानमपि, दर्शनमध्ये पाठाच्च दर्शनमपीति परिभाषामात्रमेतदितीति ग्रन्थकृतस्तात्पर्यम् । मतिज्ञानादेः क्रम इव केवलस्याक्रमेऽपि केवलज्ञाननिरूपणे केवलज्ञानदर्शनयोरभेदवादिनं प्रत्या पादितस्म भगवतीविरोधस्व सो. पपत्तिकः परिहारः निर्देशभेदस्य तात्पर्य ALLABCC
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy