SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ UPSECRECRUAROUGH " यन्मनसा न मनुते " इत्यादिविरोध एव ॥ " सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा मनसैवानुद्रष्टव्यः " इत्यादि. श्रुती मानसीनत्वं तु मनस्युपाधावुपलभ्यमानत्वं, न तु मनोजन्यसाक्षात्कारत्व, मनसैवेति तु कर्तरि तृतीया आत्मनोऽकर्तृत्वप्रतिपादनार्था मनसो दर्शनकर्तृत्वमाह, न करणतां, औपनिषदसमाख्याविरोधात् । “कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींर्धा रित्येतत्सर्व मन एव"इति श्रुती मृद्घट इतिवदुपादानकारणत्वेन मनःसामानाधिकरण्यप्रतिपादनात , तस्य निमित्तकारणत्वविरोधाचेति चेत्, न, कामादीनां मनोधर्मत्वप्रतिपादिकायाः श्रुतेर्मनःपरिणतात्मलक्षणभावमनाविषयताया एव न्याय्यत्वात्, "मनसा ह्येव पश्यति, मनसा शृणोति" इत्यादौ मनःकरणस्यापि श्रुतेर्दीर्घकालिकसंज्ञानरूपदर्शनग्रहणेन चक्षुरादिकरणसत्त्वेऽपि तत्रैवकारार्थान्वयोपपत्तेः, वन्मतेऽपि ब्रह्मणि मानसत्वविधिनिषेधयोवृत्तिविषयत्वतदुपरक्तचैतन्याविषयत्वाभ्यामुपपत्तेश्च । शब्दस्य त्वपरोक्षज्ञानजनकत्वे स्वभावमङ्गप्रसङ्ग एव स्पष्टं दूषणम् । नच प्रथमं परोक्षज्ञानं जनयतोऽपि शब्दस्य विचारसहकारेण पश्चादपरोक्षज्ञानजनकत्वमिति न दोष इति वाच्यम्, अर्धजरतीयन्यायापातात् । न खलु शब्दस्य परोक्षज्ञानजननस्वाभाव्यं सहकारिसहस्रेणाप्यन्यथाकतुं शक्यं, आगन्तुकस्य स्वभावत्वानुपपत्तेन च संस्कारसहकारेण चक्षुषा प्रत्यभिज्ञानात्मकप्रत्यक्षजननवदुपपत्तिः, यदंशे संस्कारसापेक्षत्वं तदंशे स्मृतित्वापातो यदंशे च चक्षुःसापेक्षत्वं तदंशे प्रत्यक्षापात इति मियैव प्रत्यभिज्ञानस्य प्रमाणान्तरत्वमिति जैनैः स्वीकारात् । “स्वे स्वे विषये युगपज्ज्ञानं जनयतोश्चक्षुःसंस्कारयोरार्थसमाजे. नैकज्ञानजनकत्वमेव पर्यवस्यति, अन्यथा रजतसंस्कारसहकारणासनिकृष्टेऽपि रजते चाक्षुषज्ञानापत्तेरन्यथाख्यात्यस्वीकारभङ्गप्रसग" इति वदस्तपस्वी तूमयात्मकैकज्ञानाननुव्यवसायादेव निराकर्तव्या,अन्यथा रजतप्रमेऽप्युभयात्मकतापत्ते,पर्वतो वहिमा केवलज्ञान निरूपणे ॐ वेदान्तिमत खण्डने ब्रह्मज्ञानस्य न मानसत्वं किन्तु शाब्दत्वमेवेति वेदान्तिप्रश्नपतिविधाने तस्य मानसत्वस्थापनं शब्दस्य परोक्षज्ञानजनकत्वमेवेति स्थापनश्च। दशे स्मृतिमा उपपत्तेः । न च त्वमिति जैन RECE
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy