________________
REC
RECEMBER
परतश्चेति. संवादकबाधक ज्ञानानपेक्षया जायमानत्वं स्वतस्त्वं, तच्चाभ्यासदशायां, केवलक्षयोपशमस्यैव तत्र घ्यापारात, तदपेक्षया जायमानत्वं च परतस्त्वं, तच्चानभ्यासदशायां, अयं च विभागो विषयापेक्षया, स्वरूपे तु सर्वत्र स्वत एव प्रामाण्यनिश्चय इत्यक्षरार्थ इति ।" ईहयैव हि सर्वत्र प्रामाण्यनिश्चयाभ्युपगमे कि संवादकप्रत्ययापेक्षया ?, न खल्वेकं गमकमपेक्षितमिति गमकान्तरमप्यपेक्षणीयम् । न चेहाया बहुविधत्वाद्यत्र न करणसाद्गुण्यासाद्गुण्यविचारस्तत्रैवोक्तस्वतस्त्वपरतस्त्वव्यवस्थेति वाच्यम ईहायां क्वचिदुक्तविचारव्यभिचारोपगमे आभ्यासिकापायपूर्वेहायामनुपलक्ष्यमाणस्यापि तद्विचारस्य नियमकल्पनानुपपत्तेः । न चोक्तविचार ईहायां प्रमाजनकतावच्छेदको न तु तज्ज्ञप्तिजनकतावच्छेदक इत्यपि युक्तम् , करणगुणादेव प्रमोत्पत्तौ | तस्यातथात्वात् । न च भाविज्ञानस्यासिद्धत्वादुक्तविचारवत्यापीहया तगतप्रामाण्याग्रह इत्यपि साम्प्रतम् , विचारेण करणसाद्गुण्यग्रहे भाविज्ञानप्रामाण्यग्रहस्यापि सम्भृतसामग्रीकत्वादित्यादिविचारणीयम् । ननु भवतां सैद्धान्तिकमते उपयोगेडवग्रहादिवृत्तिचतुष्टयच्याप्यत्वं, एकत्र वस्तुनि प्राधान्येन सामान्यविशेषोभयावगाहित्वपर्याप्त्याधारत्वं वा, तार्किकमते च प्रमेयाव्यभिचारित्वं प्रामाण्यमयोग्यत्वादभ्यासेनापि दुग्रह, समर्थप्रवृत्त्यनौपयिकत्वेनानुपादेयं च । पौद्गलिकसम्यक्त्ववतां सम्यक्त्वदलिकान्वितोऽपायांश:प्रमाणं, क्षायिकसम्यक्त्ववतांच केवलोऽपायांश इति तत्त्वार्थवृत्त्यादिवचनतात्पर्यपर्यालोचनायां तु सम्यक्त्वसमानाधिकरणापायत्वं ज्ञानस्य प्रामाण्यं पर्यवस्यति,अन्यथाऽननुगमात्,तत्र च विशेषणविशेष्यभावे विनिगमनाविरहः। ज्ञानं प्रमाणमितिवचनं विनिगमकमिति चेत्, तदपि समर्थप्रवृत्त्यौपयिकेन रूपेण विनिगमयेत् न तु विशिष्टापायत्वेनानीदृशेन, 'सम्यक्त्वानुगतत्वेन ज्ञानस्य ज्ञानत्वं, अन्यथा त्वज्ञानत्वं' इति व्यवस्था तु नापायमात्रप्रामाण्यसाक्षिणी, सम्यग्दृष्टिसम्बन्धिना
विज्ञानप्रामाण्यग्रहस्यापि सान्येन सामान्यविशेषोभयावगाहापादेयं च । पौद्गलिकसम्यक्त्ववता
R BASSANA
मलयगिरिप्रभृत्यमिप्रायेण स
त्रेहयैवप्रामाण्यनि
श्चयोपगमे रत्नाकरसूत्रविरोध उप
दर्शिता, जैनाभिमते प्रामाण्या
प्रामाण्यस्वतस्त्वपरतस्त्वानकान्ते दोषोपदर्शनम् ।।