SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ है मीशान बिन्दुः प्रकरणम्॥ ॥९ ॥ RUNNINGHARRINGS मतिज्ञानमूलोहादेमंतिज्ञानत्ववदेवाभ्युपेयम् । अत एव श्रुतज्ञानाभ्यन्तरीभूतमतिविशेषैरेव षट्स्थानपतितत्वं चतुर्दशपूर्वविदामप्याचक्षते सम्प्रदायवृद्धाः। तथा चोक्तं कल्पभाष्ये-" अरकरलंभेण समा, ऊणहिया हुंति मइविसेसेहिं । ते वि य मईविसेसा, सुअनाणभंतरे जाण ॥१॥" (विशे. गा.१४३ ज्ञानार्ण०प०१८) यदि च सामान्यश्रुतज्ञानस्य विशेषपर्यवसायकत्वमेव मतिज्ञानस्य श्रुतज्ञानाभ्यन्तरीभूतत्वमुपयोगविच्छेदेऽप्येकोपयोगव्यवहारश्च फलप्राधान्यादेवेति विभाव्यते, तदा पदार्थ बोधयित्वा विरतं वाक्यं वाक्यार्थबोधादिरूपविचारसहकृतमावृत्या विशेष बोधयदैदम्पर्यार्थकत्वव्यपदेशं लभत इति मन्तव्यम् । परं शब्दसंसृष्टार्थग्रहणव्यापृतत्वे पदपदार्थसम्बन्धग्राहकोहादिवत्तस्य कथं न श्रुतत्वम् , "शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेष: (त्रिकाल सा)धारणसमानपरिणामः श्रुतम्" इति नन्दीवृत्त्यादी दर्शनात ॥ [नन्दीवृत्तावयं पूर्णपाठः-तथा श्रवणं श्रुत वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहतुरुपलब्धिविशेषः, 'एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घट. शब्दवाच्यम् ' इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारीन्द्रियमनोनिमितोऽवगमविशेष इत्यर्थः] "सोइंदिओवलद्धी, होइ सुझं सेसयं तु मइनाणं ॥ मोत्तणं दब्बसुअं, अस्करलंभो अ सेसेसु ॥११७॥" (ज्ञानार्ण०प०१२)इति पूर्वगतगाथायामप्ययमेव स्वरसो लभ्यते। तथा चास्या अर्थः-श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यवधारणं, । न तु श्रोत्रेन्द्रियेणोपलब्धिः श्रुतमेवेति । अवग्रहहादिरूपायाः श्रोत्रेन्द्रियोपलब्धेरपि मतिज्ञानरूपत्वात् । यद्भाष्यकार:"सोइंदिओवलद्धी,चेव सुअंन उतई सुअंचेव । सोइंदिओवलद्धी,विकाई जम्हा मइनाणं ॥१२२॥"(ज्ञाना०प०१३) शेषं तु यच्चक्षुरादीन्द्रियोपलब्धिरूपं तन्मतिज्ञानं, तुशब्दोऽनुक्तसमुच्चयार्थः, स चावग्रहेहादिरूपां श्रोत्रेन्द्रियोपलब्धिमपि समुच्चिनोति, यभा श्रुतज्ञानम्लोहादेः श्रु| तत्वं, ततः श्रुतज्ञानाम्य न्तरीभूत| मतिविशेषरेव पूर्वविदांषट्स्थानपतितत्वं तत्र संवादोपदर्शनञ्च ॥ ॥९ अर
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy