SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सविवरणं श्रीज्ञाना र्णवप्रकरणम् ॥ ॥ २ ॥ त्वेन तस्य प्रत्यक्षत्वावश्यकत्वात्प्रत्यक्ष परोक्षातिरिक्तज्ञान स्यालीकत्वात् । अपि चेन्द्रियमनोनिमित्तं ज्ञानं परोक्षं संशयविपर्ययानध्यवसायसम्भवाद्विनिश्वयसम्भवाद्वा साभासानुमानवत्सम्यगनुमानवच्चेति हेतोस्तस्य परोक्षत्वसिद्धौ न प्रत्यक्षत्वम् ॥ आह च“इंदिअमणोणिमित्तं, परोक्खमिह संसयादिभावाओ । तकारणं परोक्खं, जहेह साभासमणु माणं ।। ९३ ।। ति” [ इन्द्रियमनोनिमित्तं, परोक्ष मिह संशयादिभावात् ॥ तत्कारणं परोक्षं, यथेह साभासमनुमानम् ]। एवं च संशयादिप्रतिबन्धकतावच्छेदकतया सिद्धं प्रत्यक्षत्वमवध्यादिष्वेव व्यवस्थितमिति भावः । ननु तद्वत्ताज्ञानं प्रति तद्विरुद्वनिश्चयत्वेनैव प्रतिबन्धकता ऽसिद्ध विरुद्धानैकान्तिकैश्वानुमितिरेव प्रतिबद्ध्यते न त्वनुमित्यनन्तरं सन्देह एवाधीयत इति चेत्, न, तथापि साक्षात्कृतेऽर्थे सन्देह सामग्रया एवानवतारादित्याशय इत्याहुः॥ वस्तुतइन्द्रियजन्यज्ञानत्वं न प्रत्यक्षत्वं, तन्मते ज्ञानमात्रस्य मनोरूपेन्द्रियजन्यत्वात्, न चेन्द्रियत्वेनेन्द्रियजन्यत्वं विवक्षितं इन्द्रियत्वस्म प्रत्यक्षघटितत्वेन तेन रूपेणा हेतुत्वात्पृथिवीत्वादिना साङ्कर्येण तस्य जातित्वादीश्वरज्ञानेऽव्याप्तेश्व, नापि ज्ञानाकरणकज्ञानत्वं जन्यप्रत्यक्षस्याऽदृष्टद्वाराऽस्मदादिज्ञानस्येश्वरज्ञानस्य वा जन्यत्वेनाव्याप्तिवारणायादृष्टा द्वारकत्वाविशेषेणदानस्य [SSवश्यकत्वेऽपि निदिध्यासनद्वारा मननजन्ये तत्वज्ञानेऽव्याप्तेः, विजातीयादृष्टद्वारा मननस्य तद्धेतुत्वापेक्षया विजातीय निदिध्यासनद्वारैव तद्धेतुत्वौचित्यात्, नापि जन्यधीजन्यमात्रवृत्तिजातिशून्य ज्ञानत्वं जन्यधमात्रस्यादृष्टद्वारा जन्यधीजन्यत्वात्, साक्षातज्जन्यत्वविवक्षणे च स्मृतावतिव्याप्तेरहष्टाद्वारकत्वविशेषणे जन्यपदवैयर्थ्यात्, अनुमित्यादेरप्यदृष्टद्वारा हविर्विषयकव्याप्तिज्ञानादिजन्यत्वाच्च, अदृष्टव्यापारानिरूपितजन्यधीजन्यतावन्मात्रवृत्तिजातिमत्वविवक्षणे ऽपि जन्यधी मात्रस्य कालि केन जन्यधीजन्यत्वात् सामानाधिकरण्यप्रत्यासच्या जन्यत्वविवक्षावश्यकत्वे जन्यपदवैयर्थ्यात् । किञ्चैतानि लक्षणानीतरभेदोपयोगीनि न तु व्यवहारोपयोगीनि, अथो भयोपयोगि साक्षात्कारित्वमेव इन्द्रियमनोजन्यज्ञाने परोक्षत्वेऽनु मानं दर्शितं, इन्द्रियजन्य ज्ञानत्वस्य | प्रत्यक्षलक्षणत्वे दोषोपदर्शनं, ज्ञानाकरणकज्ञान त्वादीनां प्रत्यक्षलक्षणानां खंडनम् ॥ ॥ २ ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy