________________
सविवरणं भीज्ञाना
र्णवप्रकरणम् ।।
॥ ७७ ॥
प्राणापानवदिति, न च दृष्टान्तासिद्धिः, प्राणापानव्यापारस्य तनुयोगत्वाभावे योग चतुष्टयप्रसङ्गात्, तदिदमाह भाष्यकृत् " तणुजोगो च्चिय मण-वह-जोगा कारण दव्वगहणाओ || आणापाणव्व न चे, तओ वि जोगंतर होआ || ३६०||" [ तनुयोग एव मनोवायोगी कायिकेन द्रव्यग्रहणात् । आनप्राणवद् न चेत्सोऽपि योगान्तरं स्यात् ।।] इति, तुल्येऽपि तनुयोगत्वे प्राणापानयोगस्य न पृथग्ग्रहणं मनोवाग्योगयोश्च पृथग्ग्रहणमित्यत्र लोकलोकोत्तररूढतया व्यवहारप्रसिद्धिरेव नियामकं, लोके लोकोत्तरे च कायिकवाचिक मानसिकयोगानामेव त्रयाणां व्यवहारो न प्राणापानयोगस्य, तदिदमुक्तं भाष्यकृता " तुल्ले तणुजोगते, कीस व जोगंतरं तओ न कओ ॥ मण - वइजोगा व कथा, भण्णइ ववहारसिद्धत्थं || ३६१ ||" [तुल्ये तनुयोगत्वे कस्माद्वा योगान्तरं स न कृतः ॥ मनोवाग्योग वा कृतौ भण्यते व्यवहारसिद्धयर्थम् ||] इति, कायक्रियातिरिक्तं स्वाध्यायविधान- परप्रत्यायनादिकं वाचः, धर्मध्यानादिकं मनसश्च विशिष्टं स्फुटं फलं यथोपलभ्यते नैवं प्राणापानयोरित्यस्मात् कारणात्प्राणापानयोगस्य न पृथग्व्यवहारः, किन्तु मनोवाग्योगयोरेव, जीवत्यऽसाविति प्रतीतिजननादिलक्षणं फलञ्च प्राणापानयोगस्य न पृथग्योगत्वप्रयोजकं, तथा सि धावति वल्गतीत्यादिप्रतीतिफलजननाद्भावन वल्गनादिव्यापारस्यापि पृथग्योगत्वं प्रसज्येतेति, तदाह भाष्यकारः " कायकिरियाइरिसं, नाऽऽणापाणफलं जह वईए । दीसह मणसो य फुडं, तणुजोगब्र्भतरो तो सो ॥३६२॥” [ कायक्रियाव्यतिरिक्तं, नाऽऽनप्राणफलं यथा वाचः । दृश्यते मनसश्च स्फुटं तनुयोगाभ्यन्तरस्ततः सः ॥ ] इति, तनुयोगान्तर्गतत्वेऽपि वाग्योगमनोयोगयोरुपाधिभेदेन पृथगभिधानमित्येकः पक्षो व्यावर्णितः, अस्ति चात्र स्वतन्त्रावेव वाग्योगमनोयोगाविति तयोः पार्थक्येन विभजनमिति द्वितीयोऽपि पक्षः । स चैव - काय व्यापारगृहीतेन वाग्द्रव्यसमूहेन सहकारिणा वाग्निसर्गार्थं जीवस्य व्यापारो वाग्योगः, कायव्या
( योजित:
पाठ: )
तृतीय
स्तरङ्गः ॥ वाग्योगमनोयोगयोस्त
नुयोगत्वेऽपि पथग्ग्रहणं न प्राणापानयोगस्य तथात्वमित्य
त्र युक्तिरुपदर्शिता । ॥ ७७ ॥