________________
स्याद्वाद
महात्म्य
॥ स्याद्वादकल्पलतान्तर्गतस्याद्वादमाहात्म्यतपद्यकुसुमाञ्जलिः ॥
व्यालाश्चेद् गरुडं प्रसर्पिगरलज्वाला जयेयुर्जवाद्, गृह्णीयुर्द्विरदाश्च यद्यतिहठात् कण्ठेन कण्ठीरवम् । सूरं चेत् तिमिरोत्कराः स्थगयितुं व्यापारयेयुर्बलं बघ्नीयुर्बत दुर्नयाः प्रसृमराः स्याद्वादविद्यां तदा ॥ १ ॥ नयाः परेषां पृथगेकदेशाः, क्लेशाय नैवाईतशासनस्य । सप्तार्चिषः किं प्रसृताः स्फुलिङ्गा, भवन्ति तस्यैव पराभवाय ॥ २ ॥ एका नगम्यत इह न्यायेषु बाह्येषु यो, देशप्रेक्षिषु यश्च कश्चन रसः स्याद्वादविद्याश्रयः ।
यः प्रोन्मीलितमालतीपरिमलोद्वारः समुज्जृम्भते, स स्वैरं पिचुमन्दकन्दनिकरक्षोदाद् न मोहावहः ॥ ३ ॥ अभ्यास एकः प्रसरद्विवेकः स्याद्वादतच्चस्य परिच्छिदाप्यः । कषोपलाद् नैव परः परस्य निवेदयत्यत्र सुवर्णशुद्धिम् ॥ ४ ॥ माध्यस्थ्यमास्थाय परीक्ष्यमाणाः क्षणं परे लक्षणमस्य किञ्चित् । जानन्ति तानन्तिमदुर्नयोत्था कुवासना द्राक् कुटिलीकरोति ||१५|| अतो गुरूणां चरणार्चनेन कुवासनाविनमपास्य शश्वत् । स्याद्वादचिन्तामणिलब्धिलुब्धः प्राज्ञः प्रवर्तेत यथोपदेशम् ॥ ६ ॥ चार्वाकयमतावकेशिषु फलं नैवास्ति बौद्धोक्तयः, कर्कन्धूपमितास्तु कण्टकशतैरत्यन्तदुःखप्रदाः । उन्मादं दधते रसैः पुनरमी वेदान्ततालद्रमाः, गीर्वाणद्रुम एव (प) तेन सुधिया जैनागमः सेव्यताम् न काकैश्चार्वाक सुगततनयैर्नापि शशकै केनद्वैतज्ञैरपि च महिमा यस्य विदितः । मरालाः सेवन्ते तमिह समयं जैनयतयः, सरोजं स्वाद्वादप्रकरमकरन्दं कृतधियः
॥ ७ ॥
॥ ८ ॥
कचिद् भेदच्छेदः क्वचिदपि हताऽभेदरचना कचिद् नात्मख्यातिः क्वचिदपि कृपास्फातिविरहाः । कलङ्कानां शङ्का न परसमये कुत्र १ तदहो ! श्रिता यत् स्याद्वादं सुकृतपरिणामः स विपुलः
॥ ९ ॥
पद्यकुसुमाञ्जलिः
|| 61 ||