________________
कालमणतं सुहं लहइ ॥६॥" इति ॥[काले शिक्षते ज्ञानं, जिनमणितं परमभक्तिरागेण ।। दर्शनप्रभावकाणि च शिक्षते शास्त्राणि काले । काले च भक्तपानं, गवेषयेत्सकलदोषपरिशुद्धम्।।आचार्यादीनामर्थाय, प्रवचनमातृधूपयुक्तः ॥ एवं समाचरन्काले काले विशुद्धपरिणामः ॥ अस्रवद्योगकारी श्लाघनीयश्च भुवने ॥ सकलसुरासुरप्रणतजिन-गणधरभाषितक्रियाविधिकुशलः ॥ आराध्य सम्यक्त्वज्ञानचरणानि परमाणि ॥ सप्ताष्टभवग्रहणाभ्यन्तरकाले केवलज्ञानम् ॥ उत्पाद्य गच्छति विधुतमला शाश्वतं मोक्षम् ॥ तत्रच जराजन्ममरणरोगतृष्णाक्षुधाभयविमुक्तः ॥ साद्यपर्यवसानं कालमनन्तं सुखं लभते ।।] तेषु मतिज्ञानभेदेषु चतुषु अर्थावग्रहादिषु एकसमयोऽर्थावग्रहः, समयः सर्वजघन्यः कालविशेषः, ईहापायावन्तमुहूर्तम्, व्यञ्जनावग्रहव्यावहारिकार्थावग्रहावपि तथैव, अविच्युतिस्मृतिवासनाभेदात् त्रिविधा धारणा, तत्राविच्युतिः स्मृतिश्च प्रत्येकमन्तर्मुहूर्त भवति, स्मृतिबीजभूता तदर्थज्ञानावरणक्षयोपशमरूपा वासना तु संख्येयवर्षायुषां सत्त्वानां संख्येयं कालम्, असंख्येयवर्षायुषां तु पल्योपमादिजीविनाम | | संख्येयं कालम्भवति, तदुक्तं नियुक्तिकृता ॥ “ उग्गहो एक्कं समयं, ईहा-वाया मुहुत्तमंतं तु ॥ कालमसंखं संखं च, धारणा होइ नायव्वा ॥ ३३३ ॥” इति [ अवग्रह एकं समयं, ईहापायौ मुहूर्तान्तस्तु ॥ कालमसंख्यं संख्यं च धारणा भवति ज्ञातव्या ] नैश्चयिकार्थावग्रह एकसमयः, वासनारूपधारणाम्मुक्त्वाज्ये व्यञ्जनावग्रह-व्यावहारिकार्थावग्रहापायाविच्युतिस्मृतिरूपा मतिभेदाः पृथगेकमेवान्तर्मुहूर्त भवन्ति । यदाह भाष्यकारः॥"अत्थोग्गहो जहनो, समयं सेसोग्गहादओ वीसुं । अंतोमुहुत्तमेगं तु, वासनाधारणं मोत्तुं ॥३३४॥" [अर्थावग्रहो जघन्यः समयं शेषाऽवग्रहादयो विश्वक् अन्तर्मुहूर्तमेकं तु बासनाधारणां मुक्त्वा] इति स्थितिविचारः॥ नयनमनोमिन्नानां श्रोत्रादीनां चतुर्णामिन्द्रियाणां प्राप्यकारित्वव्यवस्थापनतस्तेषां
REASARASHISHASIRSASARIORK
(योजितः
पाठः) । मतिज्ञानप्ररूपणप्रसनेऽअर्थावग्रहादीनां कालमानप्रद
र्शनं ॥