________________
मनसोऽपि स्वमादाविन्द्रियव्यापारं विनाऽवग्रहादयः प्रादुर्भवन्ति, तथाहि स्वप्ने गीतादिश्रवणे प्रथममव्यक्तशब्दज्ञानं भवति, ततः किमयं शब्दोऽशब्दो वेतीहा प्रवर्तते, ततः शब्द एवायमित्यपायः, ततश्च धारणेति ॥ एवं जाग्रतोऽपि मनसैव बहलतमे तमसि घटादिपदार्थपर्यालोचनदशायां मानसा अवग्रहादयो द्रष्टव्या । आह च - " एवं चिय सिमिणाइसु, मणसो सद्दाइ बिसएस || होन्तिदियवावारा- भावे वि अवग्गहादीया ॥ २९४ ॥ " [ एवमेव स्वप्नादिषु मनसः शब्दादिषु विषयेषु । भवन्तीन्द्रिय व्यापारा - भावेऽप्यवग्रहादयः ॥ ] ॥ ६ ॥ अथावग्रहादीनां सूत्रोक्तक्रमनियमे हेतुमाह
व्यतिक्रमोत्क्रमौ नैतै- नैतेषां तत्त्वनिर्णयः । नेदृग् ज्ञेयस्वभावोऽपि तदेते नियतक्रमाः ॥ ७ ॥
अनानुपूर्वीभवनं व्यतिक्रमः, पश्चानुपूर्वीभवनमुत्क्रमः, अन्यतरवैकल्यं शून्यत्वमेतैर्वस्तुनस्तच्चनिर्णयो न स्यात्, तदेते एव वस्तुनिर्णयाय सर्वेऽपि क्रमनियमेनान्वेषणीयाः, न ह्यनत्रगृहीतमीझते, धर्मिणोऽप्रसिद्धौ निरालम्बनविचाराप्रवृत्तेः, न चानीहितं निश्चीयते, तस्य विचारपूर्वकत्वात् न च विचारं विनाऽपि कारणमहिम्ना तदुत्पादो युक्तो विचारस्यापि तत्कारणत्वेन तद्विरहे कारणमहिम्न एवासिद्धेः, न चानिश्चितं धार्यते, अन्यथा सन्देहादपि तत्प्रसङ्गादिति, वस्तुनोऽपि च सामान्यविशेषरूपः स्वभावस्तथा ज्ञानयोग्यतयैव व्यवस्थित इति तस्य तथाभावो युक्तः ॥ यदाह - " उक्कमओइकमओ, एगाभावे विवाण वत्थुस्स ॥ जं सम्भावाहिगमो, तो सब्वे णियमियकमा य ॥ २९५ ॥ " [ उत्क्रमतोऽतिक्रमत, एकाभावेऽपि वा न वस्तुनः ॥ यत्स्वभावाधिगमः, ततः सर्वे नियमितक्रमाश्च ।। ] " ईहिज्जर णाऽगहियं, णज्जह नाणीहियं न याणायं ॥ धारिज्जइ जं वत्युं, ते कमोवग्गहाई ॥ २९६ ॥ " [ईझते नाऽगृहीतं ज्ञायते नानीहितं न चाज्ञातम् ॥ धार्यते यद्वस्तु तेन, क्रमोऽवग्रहादिकः ]
॥ मतिज्ञानप्रसङ्गे स्वभ दृष्टान्तेन
मानसाव
ग्रहादिप्ररूपण, अवग्रहार्दिक्रम
कारणप्रद
र्शनं च ॥