SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ संदेह- इति शेषः, विमानवर्जायुधः प्रस्तावाद्भावधर्माराधकस्य न विद्यते पायो बाहुल्येन, नावधर्मलीने. का नापि स्कंदकाचार्येण नवनपत्यायुर्वठं, प्रसन्नचंद्रर्षिणा तु नरकायुरास्कंदितमिति प्रायोग्रहणं. तत| श्युतस्यास्य किं स्यादित्याह-सुखित्तेत्यादि सुक्षेत्रकुले, सुशब्दस्योनयत्र संबंधात् पुण्यवऊनसंकु | लार्यदेशे सुकुले शिष्टाचारान्वये नरजन्म मनुष्यतयोत्पत्तिर्न तु गोगर्दनादिरूपतया, तदनु शिवगमः परमपदोपलंनो भवस्यचिरेण प्राग्जन्माभ्यस्तपुण्यानुवंधिपुण्यानुन्नावादित्यर्थः ॥ १३ ॥ यथा धर्मः स्यात्तयोक्तं. अथ यथाप्रवर्तमानस्याधर्मः स्यात्तथाह ॥ मूलम् ॥–पाणिवहाशाव-चाणाणघारसेव ज हुंति ॥ हो अहम्मो तेसु य । पवट्टमाणस्स जीवस्स ॥ १४ ॥ व्याख्या-पाणि प्राणिवध धादिर्येषां तानि प्राणिवधादीन, तानि च तानि पापस्थानानि च प्राणिवधादिपापस्थानानि, तानि चाष्टादशैव, न न्यूनाधिकानि. यद्यस्माद्भवंति, ततस्तेषु पापस्थानेषु पुनः प्रवर्तमानस्य निःशूकतया प्रसजतो जीवस्य भवत्यधर्मः, जिनाझावहिकृतत्वादित्यर्थः ॥ १४ ॥ अथास्यैव फलमाह। ॥ मूलम् ॥ तत्तो तिरियगई। अट्ट रुदं च उन्नि जाणा ॥ सग्गापवग्गसुहसंगमोवि ।।
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy