________________
धर्म
सागरीय
लवणकणदहियमहिय, संगरगायम्मि अप्पडिए | १|" इति 'प्रवचनसारोद्धार' गाथाद्वितीयार्द्धं व्याख्यानयद्भिः श्रीआनन्दसूरिभिः स्ववृत्तावुक्तं, “लवणकणै- जरकलवणलेशैर्युक्तं दधि हस्तेन मथितं वस्त्रेण गालितं तदपि रात्र्युषितं सत्कल्पते निर्विकृतिक प्रत्याख्यानवतां, कापि देशे सङ्गरकाद्यपि तत्र प्रक्षिप्यत इत्याशंक्याह - परं सङ्गरकादावपतिते सति तत्र तु द्विदलदोषसम्भवान्न कल्पत इत्यर्थः " तथा (संदेह दोलावल्यां १११ पृष्ठे ) "जह किर चवलयचणया, विदलं तह संगरा वि विदलं ति । दिणचरिया नवपयपय-रणेसु लिहिया उ फलिवग्गे | १३८| (व्याख्या लघुवृत्तौ ) यथा किल चपलकचणका धान्यविशेषा महारूक्षद्विदलवत्वाद् द्विदलं तथा 'सङ्गराण्यपि ' शमीतरुफलिका अपि द्विदलं, सङ्गरशब्दस्य पुंस्त्वं प्राकृतत्वात् इति कारणाद्दिनचर्यानवपदप्रकरणयोर्लिखिता बहुश्रुतै रुपन्यस्ताः फलिका - वर्ग, तथाहि दिनचर्यायां- 'फलिवग्गे तह संगर, वल्ला चणया य होला य' इति, नवपदप्रकरणे तु कक्कसूरिकृते न दृश्यते, परं पूज्योक्तत्वात्तद्वृत्तौ क्वापि तत्रैव वाऽन्यश्रुतधरकृते लिखिता भविष्यन्तीति स्वयं परिभाव्याः, फलिकाश्च प्रायो द्विदला एव भवन्तीति भावः । अथ सङ्गराणामेव द्विदलत्वसमर्थनार्थ लक्षण सद्भावमुद्भावयति - " न य संगरबीयाओ, तिल्लुप्पत्ती कयाइवि संभवइ । दलिए दुन्निदलाई, मुगाई व दीसंति । १३९ । ” तथा श्रीजिनपतिसूरिभिरूचे “संगर कंडुयगोयाराइ बिदल" तथा श्रीजिनदत्तसूरिभिरप्युक्तं " कंडुअसंगरियाओ, न हुँति विदलं " इत्युत्सूत्रं । ४७११७
एवं चामुंडियमय, उस्सुत्तं दंसियं मए चउहा । लहिऊणं गुरुवयणं, तुरिअं निअबोहण
|१८| “एवं प्रागुक्तप्रकारेण 'चामुण्डिकमतोत्सूत्रं' खरतरमतोत्सूत्रं 'गुरुबचनं' श्रीविजयदानसूरीश्वरवचनं 'लब्ध्वा' अवाप्य 'मया' धर्मसागरेण दर्शितं किमर्थं ? ' त्वरितं शीघ्रं 'निजबोधनार्थ' आत्मज्ञानार्थमिति" अत्र त्वरितं यदुत्सूत्रवचनं दर्शितं तदेव तवाविमर्शकारित्वं
उत्सूत्रखण्डनम्
॥ ३४ ॥