SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ यः संसारभयोद्विग्नः पूर्वरात्रापररात्रकाले सम्प्रेक्षते - किं मया कृतं ? कि वा शक्यमपि तपःकर्मादिकमहं न करोमि? इत्यादि, 'वज्जि' चि अकारमश्लेषादवद्यं पापं, सूचनात्सूत्रमिति कृत्वा तद्भीरुरवग्रभीरुः, ओजस्तेजश्वोभयमपि वक्ष्यमाणलक्षणं, तद्विद्यते यस्य स ओजस्वी तेजस्वी चेति, 'संग्रह' द्रव्यतो वस्त्रादिभिर्भावितः सूत्रार्थाभ्यां 'उपगृहो' द्रव्यत औषधादिभिर्भावतो ज्ञानादिभिरेतयोः संयतीविषययोः सङ्ग्रहोपग्रहयोः कुशलः, तथा 'सूत्रार्थविद्' गीतार्थः एवंविधो गणाधिपतिरायिकाणां गणधरः स्थापनीयः । अथौजस्त्रीति व्याचष्टे - आरोहपरीणाहो, चियमंसो इंदिया य पडिपुण्णो । अह ओओ तेओ पुण, होइ अणीतपणा देहे |२| ( व्याख्या - ) 'आरोहो' नाम शरीरेण नातिदैर्घ्यं नातिस्वता, 'परिणाहो' नातिस्थौल्यं नातिदुर्बलता, अथवा 'आरोह:' शरीरोच्छ्रयः 'परिणाहो' बाह्वोर्विष्कम्भ एतौ द्वावपि तुल्यौ. न हीनाधिकप्रमाणौ, 'चियम्सो'ति भावप्रधान निर्देशस्य चितमांसत्वं नाम वपुषि पांशुलिका न विलोक्यन्ते, तथा इन्द्रियाणि च प्रतिपूर्णानि न चक्षुश्रोत्रावयवविकलतेति भावः, अथैतदारोहादिकमोज उच्यते तद्यस्यास्ति स ओजस्वी, तेजः पुनर्देहे - शरीरे 'अनपुत्रपता' अलज्जनीयता दीप्तिमत्वेनापरिभूतत्वं तद्विद्यते यस्य स तेजस्वी, गतं गणधरप्ररूपणा द्वारं । अथ संयती गच्छस्यानयन मिति द्वारमाह-पडिलेहिर्यं च खित्तं, संजईवग्गस्स आणणा होइ । निक्कारणम्मि मग्गतो, कारणे समगं व पुरतो वा । ३ । ( व्याख्या - ) एवं च वसतिविचारभूम्यादिविधिना प्रत्युपेक्षितं च संगतीप्रायोग्यं क्षेत्रं, ततः संयतीवर्गस्यानयनं तत्र क्षेत्रे भवति, कथं ? इत्याह- 'निष्कारणे' निर्भये निराबाधे वा सति साधवः पुरतः स्थिताः संयत्यस्तु 'मार्गतः' पृष्टतः स्थिता गच्छन्ति, कारणे तु 'समकं वा' साधूनां पार्श्वतः 'पुरतो वा' साधूनामग्रतः स्थिताः संयत्यो गच्छन्ति । निष्पच्चवाय संबंधि, भाविए गणहरऽप्पविइतइयो । नेइ भए पुण सत्थेण, सद्धिं कयकरणसहितो वा |४| (व्याख्या -) निष्प्रत्यपाये संयतीनां ये 'सम्बन्धिनः' स्वज्ञातीयाः 'भाविता'श्च सम्यकूपरिणत जिनवचना निर्विकाराः
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy