SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ NANOJ उत्सत्र सागरीय खण्डनम् शक्तिमिवातमासनिधनं शृणु, 'प्रतिपक्षनिरासे हि स्वपक्षसिद्धिरिति भणनात् "पंचहत्थुत्तरेत्ति, व्याख्या-हस्तादुत्तरदिशि वर्तमानत्वाद्धस्व उत्तरो यास वा हस्तोपलक्षिता वा उत्तरा हस्तोतरा-उत्तरफल्गुन्यः, बहुवचनं फल्गुनीशब्दस्य प्रायो बहुवचनान्तप्रयोगात् , यथा 'सिंहस्तु समघा पूर्वाफाल्गुन्यः पाद उत्तराणाञ्चे'त्यादौ, पायो ग्रहणात्कचित् हारिभज्यादौ 'हस्तोत्तराया'मिति दर्शनेऽपि न व्यामोहः, यत्तु परम, कल्लाणा-श्रेयांसि, भुवणऽच्छेरयभूया-भुवनाश्चर्यभूतानि, कल्लाणफला य-कल्याणफलानि च, जीवाणं-जीवानां, गम्भेत्ति गर्भाधाने (गर्भधारणे) कल्याणं श्रेयरूपं कथितं श्रीमदभयदेवसूरिभिः, किरणावल्या ३४ पत्रे स्थानांगवृत्तौ च ५२३ पत्रे "गभ्भ हरणं-'गर्भस्य' उदरसत्त्वस्य 'हरणं' उदरान्तरसङ्क्रामणं गर्भहरणं" तथा कल्पदीपिकायां "गर्भस्य-श्रीवर्द्धमानरूपस्य हरणंविशलाकुक्षौ सङ्क्रामणं गर्भहरणं" तथा "कल्याणानां-शुभसमृद्धि विशेषाणां हेतुत्वादथवा कल्यं-नीरोगतामणन्ति-गमयन्तीति" | (तैः कल्याणस्वप्नैः सह) त्रिशलाकुक्षौ श्रीवीरतीर्थकररूपगर्भधारणं कल्याणरूपं “तत् श्रेयः" इति सुबोधिकायां उक्तमस्ति एतत्पुनः किरणावल्यां सुबोधिकायां च वस्तुवितथभणनं-वस्तुस्वरूपस्य विपरीतभाषणं तद्यथा-"अकल्याणकभूतस्य गर्भापहारस्य-नीचैर्गोत्रविपाकरूपस्य अतिनिद्यस्य आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनमनुचित"मिति प्रोक्तं, तथा | गुरुतत्त्वप्रदीपे “करोषि श्रीमहावीरे, कथं कल्याणकानि षट् ? । यत्तेध्वेकमऽकल्याणं, विप्रनीचकुलत्वतः ।। " एतत् श्रीमहावीरे ब्राह्मणनीचकुलत्वतः अकल्याणं कथनं उच्चकुलेऽपि श्रीवीरगर्भापहार-संक्रामणं-धारणं-नीचैर्गोत्रविपाकरूपं अतिनिन्द्य कल्याणकत्वकथनमनुचितं अकल्याणकभूतं. एतद्वस्तुवितथभणनं-वस्तुस्वरूपस्य विपरीतभाषणं चतुर्थमुत्सूत्र एवं उक्तप्रकारेण एतस्योच्छिष्टचाण्डालिकस्य, तत्र श्रीवीरे गर्भापहाररूपं षष्ठं अकल्याणकं सूत्रविरुद्धं नवीन प्ररूपितमस्ति । ॥२२॥
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy