________________
धर्म
सागरीय
मात्सर्यै विभ्रतो मूढा, व्यवस्यन्ति सुधा बुधान् । किञ्चिज्ज्ञत्वमदालीढा, अहो !! दूषयितुं कथम् । ५ । नाऽभिभानुरजः क्षेपस्तदात्यै प्रवर्त्तते । केवलं स्वाननं तेन, रजोभिरवगुण्डितम् । ६ । दोषोद्भावनतस्तेन, स्वात्मैव ननु दूषितः । स्वीयाहितकुचेष्टाभिः, कोशकारककीटवत् । ७ । नास्माकं तदुपर्य्यस्ति, कोपः कोऽपीह लेशतः । दूषयामो यदुच्चैस्त-मागमोक्तैर्मुमिब्रुवम् । ८ । उन्मार्ग यत्परित्यज्या - द्रियन्तां वर्त्मसुन्दरं । धर्ममर्मविदश्शिष्टा. भानुभानुप्रचारवत् । ९ । वाचां प्रपञ्च एषोऽत्र, प्रणयन्तां महाधियः । एतदर्थ इति स्पष्टं, मम प्राज्ञजनाग्रतः ॥ १०॥ स्वकीयदूषणोद्धारं कुर्महे नर्महेतुभिः । जानन्तोऽपि समान् दोषान्, दूषयामः परान्न तैः ॥ ११ ॥ यतः “आर्योऽपि दोषान् खलवत्परेषां वक्तुं हि जानाति परं न वक्ति । किं काकवत्तीक्ष्णतराननोऽपि, कीरः करोत्यस्थिवि - घट्टनानि ? । १२ ।" परः शता यतो दोषा, भवत्सु किल सन्त्यमी । तत्रास्माकं त्वया ध्येया, चित्ते गजनिमीलिका । १३ । स्वास्येन स्वापवादस्यो - चारो नैव घटामटेत् । वञ्चनं चापमानं च, मतिमान्न प्रकाशयेत् । १४ । तथापि वैकृतं तस्य वैकृतं स्यान्निराकृतं । तदुक्त्यैव ततोऽस्माभि-विविच्य तदिहोच्यते । १५ । आदौ मङ्गलमारभ्यं, सभ्यैः सन्मार्गगामिभिः । उपद्रवो हि दुष्टानां जनितो मङ्गल क्रिया । १६ । दुष्टदौरात्म्यविच्छेद - स्तद्भावे खळु सम्भवेत् । तद्भावः मूत्रपाठेऽस्मिन् निरासोऽस्मत्कृतोत्तरात् । १७ । तत्रेयं तत्कृता गाथा
पणमिय वीराजणिंदं, सुरिंद इयपयारविंदजुगं । उट्टियमयउस्सुत्तं, दंसेमि गुरूवएसेणं ॥ १ ॥
इह हि सकलयौक्तिकचक्रचूडामणितयात्मानं मन्यमानेन सर्वदाऽपि प्रसभं पोषितस्वाभिमानेन गुणवत्सु विद्वत्सु मत्सरं १ विकृतिरेव बैकृतमिति प्रज्ञादित्वात् स्वार्थे वाऽण
उत्सूत्र
खण्डनम्
॥ १ ॥