SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ धर्मविधि ॥२९॥ ध्यायन्ति शुद्धात्मका - स्तेषां स्यादिह कामदेवगृहिवत्सिद्धिर्न दूरे जनाः ! ॥ १७६ ॥ सत्सूत्रकृत् श्रीप्रभसूरिराज्ये, प्रबोधशौर्योदयसिंहद्वृत्तौ । समर्थितं धर्म्मविधावितीह, गुणाभिधं द्वारमिदं तृतीयं ॥ १७७ ॥ द्वारं तृतीयमुक्तम्, धर्म्मस्थिरतागुणश्च निर्दिष्टः । सोऽपि कषायैस्त्यक्तः, के दोषाः स्युस्तदत्यागे ॥ १ ॥ इति सम्बन्धायातं, द्वारं व्याख्यायते चतुर्थमिदम् । तस्य च कषायदोष - प्रकाशिनी प्रथमगाथेयम् ॥ २ ॥ पढमकसाया चउरो, जावज्जीवाणुगामिणो हेऊ । नरयस्स तेसिमुदए, सम्मं मुंचति भव्वा वि ॥ १८ ॥ व्याख्या - प्रथमे च ते कषायाश्च प्रथमकषायाः, चत्वार आद्या अनन्तानुबन्धिनामानः क्रोधमानमायालोभाः यावज्जीवानुगामिन:- आसंसारानुवर्त्तिनो, नरकस्य हेतवः कारणं तेषामुदये- समुल्लासे सम्यक्त्वं मुञ्चन्ति - त्यजन्ति भव्या अपि, कोऽर्थः ? भव्या एकादशगुणस्थानवर्त्तिनः केवलिसमानचारित्रिणोऽपि यदि केनचित् कर्म्मवशेन पर्यन्तेऽन्तर्मुहूर्त्तमानमपि कालमनन्तानुबन्धिकषायोदये वर्त्तमाना म्रियन्ते, तदा तत्सर्वमपि हारयित्वा प्रथमकषायतीव्रत्वेन नरकेऽप्युत्पद्यन्त इति भावः || १८ || ईदानीं द्वितीयतृतीयकषायस्वरूपमाह बियतइयकसायाणं वच्छरच उमासगामिणामुदये । तिरिनरगइहेऊणं, विरइं च वमंति दुहिंपि ॥१॥ प्रकरणम् ॥॥ २९ ॥
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy