________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥८६॥
DIGHOSHOHINGYOGIKG
णानन्यमत्याऽऽर्हता जनैः प्रतीयमानं सकारणं कार्यमुपदिशन्तीतिगाथार्थः ॥ ७६ ॥ अथ तथोपदेशे दृष्टान्तमाहजह एवं चिअ पायं जलंमि इच्चाइवयणरयणाए । नइउत्तारो भणिओ न य जलजीवेवि हिंसिजा ॥७७॥ यथेत्युदाहरणोपन्यासे "एगं पायं जले किच्चा एगं पायं थले किच्चे" त्यागमवचनादेकं पादं जले एकं चाकाशे कृत्वेत्यादिवचनरचनया नद्युत्तारो भणितो, जिनेन्द्रैरिति गम्यं, न पुनर्जलं विलोडयनुत्तरेत्, जलादिजन्तूनां बाधासंभवाद्, एवमप्युत्तरणमनन्यगत्यैव सा चैवं प्रव्रजितेन साधुना नैकत्र स्थेयं, कुलादिप्रतिबन्धेन बहुदोपसंभवात्, किंत्ववश्यं ग्रामादिषु विहर्त्तव्यमेव, तच्चान्तरागतनद्युत्तारे सत्येव स्यात्, ततो नद्युत्तारोऽवश्यं कर्त्तव्यः, तत्र जन्तूनां बाधाहेतुरयतना परिहर्त्तव्यैव, यतनालक्षणाया अन्यगते विद्यमानत्वाद्, यदि निम्नोदका नदी स्यात्तदाऽपि शनैः शनैर्यतनयो तरेत्, न पुनरयतनयाऽपीतिरूपेण नद्युत्तारो भणितो दृष्टान्ततयाऽवगन्तव्यः, न च जलजीवानपि हिंस्यादित्येवंरूपेण साक्षादन्यगतौ विद्यमानायामुपदिशन्ति, अन्यतीर्थिकास्तु 'न हिंस्यात्सर्वभूतानी'ति भणित्वाऽपि 'षट् शतानि नियुज्यन्ते' इत्यादिसंख्याभणनपुरस्सरं जीवहिंसां प्रतिपादयन्ति, तार्किका अपि हिंसात्वेन पक्षीकृत्याधर्माभावं साधयन्ति, तथाहि -यागीया पशुहिंसा नाधर्मसाधनं विहितत्वात्संध्यावन्दनादिवदिति, न चैवं जैनप्रवचने विरुद्धवादित्वमास्तामन्यत्र, प्रायः चैत्यसाध्वादिप्रत्यनीकेष्वपि हिंसाभाषाया अनुपदिष्टत्वाद्, यदागमः- “साहूण चेइआण य पडिणीअं तह अवण्णवायं च । जिणपवयणस्स अहिअं सव्वत्थामेण वारेइ || १||त्ति (२४२ उप. ) अत्र सर्वबलं - स्वप्राणव्यपरोपणं यावदिति व्याख्यातं यद्यपि पुलाक चक्रवर्त्तिसैन्यमपि चूरयेदित्याद्युक्तं तत्र क्वचित्सङ्घादिकृत्ये सामर्थ्यं दर्शितम्, अनन्यगत्या च कुर्यादपि, परं गत्यन्तरे विद्यमाने तथोपदेशो न भवति, कृते च प्रायश्चित्तमतिपत्तिरपि, ननु यत्र प्रायश्चित्तप्रतिपत्तिस्तत्कथं क्रियते चेदुच्यते,
DIGHONGKONGHONGKONGHONEYONGHO
पृथिव्याद्यारंभस्य अनन्यगति
कृता
॥८६॥