________________
श्रीप्रवचन
उत्सर्गा
परीक्षा
पवादव्यवस्था
११ विश्रामे ॥२८२॥
THEHOROINOHORIGHOSHO
HLOROUGणना
बलवान् भवति, तेनैव कारणेन प्रवचने स्यादवादोऽपि युक्तिक्षम एव, न ह्येकान्तेनोत्सर्गापवादाभ्यामेव प्रवृत्तिा, किन्तु काप्युत्सर्गेणैवेति, कालपरिहान्या विवादादौ च जाते सति नियमात् राजानमंतरेण न प्रजानां निर्वाहः, आस्तामन्यत् , धर्मप्रवृत्तिरपि
राजनिश्रयैव भणिता, यदागमः-"धम्म चरमाणस्स पंच निस्साठाणा पं०, तं०-छकाया १ गणो २ राया ३ गाहावती ४ |सरीरं ५ चे" त्यादि, अत एवोत्सर्गापवादौ बहुश्रुतगम्यौ, नागीतार्थगम्यौ, यदागमः-"दव्वं खित्तं कालं भावं पूरिस पडिसेवणाओ
। नवि जाणेइ अगीओ उस्सग्गववाइ चेव ॥१॥"श्रीउपदेशमालायां, व्याख्यानं यथा-द्रव्यं क्षेत्रं कालं भावं पुरुषं प्रतिसेव-1 | नाश्च नापि-नैव जानात्यगीतार्थः, औत्सर्गिकापवादिकवादस्थानमिति गम्यते, तत्रोत्सर्गेण निवृत्तमौत्सर्गिकं-यनिर्विशेषणं क्रियते, अपवादेन निर्वृत्तं आपवादिक-यद् द्रव्यक्षेत्राद्यपेक्षमिति, एवकागत तद्गुणदोषांश्चागीतार्थो न जानाति,अतो ज्ञानाभावात् | वैपरीत्येन प्रवर्त्तते, तथा च कर्मबन्धः, ततोऽनंतः संसार इति द्वारगाथासमासार्थः, एवमुत्सर्गापवादयोर्व्यवस्थापने बह्वयो युक्तयोऽनया दिशाऽभ्युपगन्तव्याः, येन कारणेनोत्सर्गपालकोऽपवादस्तेन कारणेन यथासंभवं प्रतिव्रतं प्रतिप्रत्याख्यानं च यावंत आगमे भणितास्तेषामनतिक्रमेण यथासंभवं आगारा-अनाभोगादयो भणिताः,आस्तां महति कृत्ये,ईर्याप्रतिक्रांतावपि कायोत्सर्गस्योच्छ्वास-| निःश्वासादयो भणिता इति गाथार्थः ॥३०॥ अथोत्सर्गापवादविषये दृष्टान्तान्तरमाह___जह पहिओ वच्चंतो खिन्नो खण वीसमित्तु वच्चिजा। एवमववायसेवी खणेणमुस्सग्गमग्गरओ ॥३१॥
यथा पथिको व्रजन् खिन्नः-खेदमापन्नः, श्रांत इत्यर्थः, क्षणं-मुहर्त्तमात्रं विश्रम्य-विश्रामं कृत्वा ब्रजेत् , अपगतपथश्रमः पुनः | सुखेन गन्तुं शक्नोतीत्यर्थः, एवमपवादसेवी धर्मानुष्ठाने प्रवर्त्तमानो ग्लानिमापनःक्षणेन-क्षणमात्रेणोत्सर्गमार्गस्तो भवति,उत्सर्ग
G ROUGHOS
॥२८॥