________________
भीप्रवचन
परीक्षा
विविधवाAlदविचार
११ विश्रामे ॥२७॥
CHIRKOSHOOTHOLOGHOMONGO
शमो वीर्यान्तरायक्षयोपशमो वेत्यादि,एवं दिशोऽपिज्ञानादिकारणं,यदागमः-“दो दिसाओ अभिगिज्य कप्पति णिग्गंथाणं णिग्गंथीणं वा पवावित्तए-पाईणं चेव उदीणं चेव, एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायं उद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोतित्तए पडिक्कमित्तए निंदित्तए गरिहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अन्भुद्वित्तए आहारिहं पायच्छित्तं तवोकम्म पडिवजित्तए"ति श्रीस्थानांगे,एतट्टीका यथा 'दो दिसाउ'त्ति इत्यादि, द्वे दिशौकाष्ठे अभिगृह्य-अंगीकृत्य, तदमिमुखीभूयेत्यर्थः, कल्पते-युज्यते निर्गता ग्रंथात् धनादेरिति निग्रंथा:-साधवस्तेषां निर्ग्रन्थ्यःसाच्यस्तासां, प्रव्राजयितुं रजोहरणादिदानेन प्राचीनां प्राची पूर्वामित्यर्थः उदीचीनां-उदाचीमुत्तरामित्यर्थः, उक्तं च-"पुवा| मुहो उ उत्तरमुहो य दिजाऽहवा पडिच्छिज्जा । जाए जिणादयो वा हवेज जिणचेइआई व ॥१॥"त्ति, एव'मिति यथा प्रवाजनसूत्रं | दिग्द्वयालिलापेन अधीतं एवं मुंडनादिसूत्राण्यपि षोडशाध्येतव्यानीति,तत्र मुंडयितुं शिरोलोचनतः १ शिक्षयितुं ग्रहणशिक्षापेक्षया
सूत्रार्थों ग्राहयितुं आसेवनाशिक्षापेक्षया तु प्रत्युप्रेक्षणादि शिक्षयितुमिति २ उत्थापयितुं-महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं | भोजनमंडल्यां निवेशयितुं ४ संवासयितुं-संस्तारकमंडल्यां निवेशयितुं ५ सुष्ठु आ-मर्यादयाऽधीयते इति खाध्यायः-अंगादिः तं
उद्देष्टुं-योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६ समुद्देष्टु-योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति७ | अनुज्ञातुं-तथैव सम्यग् एतद् धारय अन्येषां च प्रवेदय इत्येवं अमिधातुमिति ८ आलोचयितुं गुरवेऽपराधान् निवेदयितुमिति ९ प्रतिक्रमितु-प्रतिक्रमणं कर्तुमिति १० निंदितुं अतिचारान् स्वसमक्षं जुगुप्सितुं, आह च "सचरित्तपच्छयावो निंद"ति ११ गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च-'गरहावि तहाजातीयमेव नवरं परप्पयासण'चि १२ बिउद्वित्तए'त्ति व्यतिवतुं वित्रोटयितुं
॥२७॥