SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२५४॥ गुरुधर्मयोराशातना OGROGROLOGRORONOHORGHOR अत्र कटुकस्योत्पत्तिरेवकारोऽध्याहार्यस्तदुत्पत्तिरेव साध्वाशातनामूलं, यतः कटुक उत्पन्नमात्र एव न मम गुरवो दृक्पथमायान्तीति वचोमात्रेण साधूनामाशातनाकारी,दृष्टान्तमाह-'लुम्पकस्सेवे'त्यादि, इह यथा लुम्पकस्योत्पत्तिरेव जिनप्रतिमानामाशातनामूलं, स चोत्पत्र एव नास्माकं प्रतिमासु देवत्वबुद्धिः संपद्यते, अयं भावः-यदि कटुकः साधुमङ्गीकरोति लुम्पकस्तु जिनप्रतिमा | तर्हि तयोर्व्यवच्छेदः स्यात् , तदनङ्गीकारमूलकत्वात्तयोः,एतच्चाबाल-बालकमा-मर्यादीकृत्य जगत्पटहो वर्त्तते-आबालगोपांगनाना|मपि कटुको गुरुप्रत्यनीको लुम्पाकस्तु जिनप्रतिमानामिति प्रतीतमितिगाथार्थः ॥३७।। अथ धर्माशातनामाहका गुरुपरतंतविरहिओ धम्मुवएसं मुणिव्व गिहिलिंगी। कुव्वतो धम्मस्सवि आसाई तेण तिण्हपि ॥३८॥ गुरुपारतन्त्र्यरहितो गृहस्थलिङ्गी मुनिवद्धर्मोपदेशं कुर्वन् धर्मस्याशाती-धर्मस्याशातनाकारी, अयं भावः-कदाचिच्छ्रावको धर्म | कथयति तदा गुरव इत्थमादिशन्तीत्येवं गुरुपरतत्रो धर्म कथयति, न पुनः सभाप्रबन्धेन साधुवद्धर्मदेशनां कुरुते, अयं चैतद्विलक्षणोऽतो धर्मस्याशातका, तेन कारणेन त्रयाणामपि देवगुरुधर्माणामप्याशातनाकारी अनन्तसंसारपरिभ्रमणमूलं कटुकः स्वस्थान्येषां च तदुपदेशवशगानामितिगाथार्थः ॥३८॥ अथ कटुकमतस्योपसंहारमाहगिहिजिणबिंबपइहापुण्णिमपखिप्पमुहमिहमखिलं। पुणिममयसारित्थं पुण्णिमविस्सामओणेअं॥३९॥ कटुकमते साध्वनङ्गीकारात् गृहिणो जिनबिम्बप्रतिष्ठाऽभिमता, श्रावकेण जिनबिम्बप्रतिष्ठा कर्तव्या, न पुनः साधुमिः, तथा पञ्चदश्यां पाक्षिकमित्यादि सर्व पूर्णिमीयकमतसदृशं पौर्णमीयकविश्रामाद् बोध्यमिति गाथार्थः ॥३९॥ ॥२५४॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy