SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९विश्रामे विदेहनिश्रामावे चर्चा जालमाGHOMGHONOUGHOUG | कटुकमते उत्तरापथवर्तिनां साधूनां सिद्धान्ते गुर्जरत्रावनिवर्तिन एव युगप्रधाना उक्ता भविष्यन्ति तदा कटुकस्य का गतिः, कथं वा तन्निर्णय इति सर्वकालसंदिग्ध एव स्तोत्रमात्रमङ्गीकृत्योद्धान्तचेता उभयभ्रष्ट इतिगाथार्थः ॥ ३३ ॥ अथोत्तरापथसाधुनिश्रामा लम्ब्य धर्मकृत्यं कुर्म इति कदाशयं दूषयितुमाहउत्तरपहमुणिनिस्सं अवलंबिअ धम्मकिच्चमिह कुणिमो। तंपिअ मिअतिण्हाभं विदेहयाणंपि किं नेव॥३४॥ उत्तरापथसाधुनिश्रामवलंब्य च यद्धर्मकृत्यं कुर्मस्तन्मृगतृष्णाभं-मरुमरीचिकाकल्पं, यतस्तदृष्ट्वा जलाशया धावमानो न जललाभमाग्भवति तथाऽप्युत्तरापथसाध्वाशया प्रवर्त्तमानो न धर्मभाग् भवति, यतो विदेहजानां साधूनां किमेवं न निश्रां करोति?, उभयत्राप्यदर्शने विशेषाभावेऽप्युत्तरापथसाधूनां निश्रामगीकृत्य धर्म करोति तर्हि विदेहजानां साधूनामेव कुर्विति तात्पर्य, नन्वेवमेव | भवत्विति चेन्मैवं, विदेहजानां साधूनां निश्रया धर्मकृत्यस्याप्यसंभवाद्, अत एव वर्षाकालस्थितानामपि साधूनां यद्याचार्यः शरीरास्पृथग्भूतो भवेत्तर्हि गच्छान्तराचार्याश्रयणार्थं ग्रामानुग्रामविहारकरणानुज्ञा, यदागमः-"पंचहिं ठाणेहिं कप्पति निग्गंथाण वा २ गामाणुगाम दुइज्जित्तए, तं०-नाणयाए दंसणठ्याए चरित्तठ्ठयाए आयरियउवज्झाए वा से तस्स विसुंभेजा आयरिउवज्झायाणं बहिआ वेयावच्चकरणयाए"ति (५१३) श्रीस्थानाङ्गे, एतट्टीकादेशो यथा-'आयरिअउवज्झाए'त्ति समाहारद्वन्द्वस्तद् आचार्योपा| ध्यायं वा 'से' तस्य भिक्षोः 'विसुंभेजाहि विष्वक्-शरीरात्पृथग् भवेत्-जायेत, म्रियेतेत्यर्थः,ततस्तत्र गच्छेऽन्यस्थाचार्यादेरभावाद्गणान्तराश्रयणार्थमिति श्रीस्थानांगटीकायां, अत्र यदि महाविदेहवानामाचार्यादीनां निश्रया चारित्राराधनमभविष्यत्किमिति | साधूनामपि चतुर्मासकस्थिताबामपि गणान्तराचार्याश्रयणार्थ विहारकरणानुज्ञामदास्यत् , तसादत्रत्यसाधुनिश्रयैव धर्मकृत्यं श्रेयो, VGHDGHONGKONGHOROUGHOUGHOS
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy