________________
श्रीप्रवचन
परीक्षा ९ विश्रामे
॥२४९॥
HONGHO%SHO%D
अनुप्रेक्षा चार्थचिन्तनिका, सा वाचनाप्रच्छनापरावर्त्तनानुप्रेक्षाधर्मकथा लक्षणपश्चविधस्वाध्यायानां मध्ये चतुर्थो भेदः, साऽप्यनुप्रेक्षा तेन कर्त्तव्या येन सुतीर्थात्सूत्रार्थी गृहीतौ स्याताम् एवंविधोऽपि निश्चितसूत्रार्थी, न पुनः संदिग्धसूत्रार्थधारकः, सोऽपि गुरुपरतत्रो - गुर्वायत्तः, न चैवं कटुकमते तद्गन्धोऽपि संभवति, गूर्जरत्रादौ सुतीर्थस्यैवाश्रद्धानात्तदभावाच्च कुतो गुरुपारतन्त्र्यं १, 'ग्रामो नास्ति कुतः सीमे 'ति गुरुपारतन्त्र्याभावे च सूत्रार्थनिश्चयोऽपि न संभवति, यदागमः - "मूअं हुंकारं वा वाढकार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं च परिणि सत्तम । । १ । । " ति ( १-८९ ३ २३*) श्री आवश्यकनिर्युक्तौ तथा "संहिआ य पयं चेव, पयत्थो पयविग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ १ ॥” इति ( १३५* ) श्रीअनुयोगद्वारे इति, चालनाद्यभावात् कुतः सूत्रार्थनिश्चयः ?, कटुकेन तु वैपरीत्यभाजिनैवास्तामनुप्रेक्षा धर्मकथैव क्रियते, धर्मकथा च स्वाध्यायस्य पञ्चमो भेदः, स च गृहस्थानां निषिद्धः, यदागमः - " चत्तारि पुरिसजाया पं० तं० - आघवित्ता नाममेगे नो उंछजीविसंपन्ने उंछजीविसंपन्ने नाममेगे नो आघवित्तए" (३४४) इतिश्रीस्थानाङ्गे, एतट्टीका यथा आख्याय एवाख्यायकः सूत्रार्थस्य न चोञ्छजीविकासंपन्नः, नैषणानिरत इत्यर्थः, स चापगतः संविग्नः संविग्नपाक्षिको वा, यदाह- हुअ हु वसणं पत्तो सरीरदुत्थियतयाऍ असमत्थो । चरणकरणे असुद्धो सुद्धं मग्गं परुवेजा ||१||" तथा "ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही अ । चरणकरणे विसुद्धं उववृहतो परूवंतो ॥ २ ॥ | "त्ति एको, द्वितीयो यथाच्छन्दः तृतीयः सुसाधुश्चतुर्थो गृहस्थादिरिति इतिश्रीस्थानाङ्गटीकायां, अत्र गृहस्थचतुर्थे भने भणितः, स च सूत्रार्थख्यायको न स्यात्, कटुकमते तु सामायिकादिसूत्राख्यायको गृहस्थ एव, तन्मते साधोर्दर्शनस्यैवाभावात्, साध्वभावे च संविग्नपाक्षिकस्याप्यभावात्, तदभावे च कुतः सूत्रार्थावाप्तिरिति कटुकमतेऽत्रत्य सिद्धान्ताभावात्कथं युगप्रघानादिनिर्णयः १, किंच
DHONI SIGH DIGHIOIGHOIGHDIGHIG
श्राद्धानां
धर्मकथा
भावः
॥२४९॥