________________
श्रीप्रवचन
परीक्षा ९विधामे ॥२४३॥
साघुसत्तासिद्धि
HOSHOOHOROOGOHOROS
एवं-प्रागुक्तवच्चतुष्पञ्चविकल्पविषयाणि महाव्रतानि भवन्तीति गम्यं, चत्वारि च पञ्च च चतुष्पश्च तेषां तद्रूपो वा विकल्पचतुष्पञ्चविकल्पस्तस्य विषयीभूतानि महाव्रतानि, अत्र च कारणं मुख्यवृत्त्या काल एव, प्रथमचरमजिनयोः काले पञ्च महाव्रतानि, शेषाणां तु काले चत्वारि, यद्-यस्मात्कालानुभावाजीवा जाताः, कीदृशाः-ऋषभजिनकाले ऋजुजडाः अजितादिजिनकाले ऋजुप्राज्ञाः श्रीवीरकाले च वक्रजडाः, चकारोऽध्याहार्यः, तत्र ऋजुजडानां चारित्रपालनं सुकरं, परं विशोधिः दुःसाध्या, ऋजुप्राज्ञानां पालनं विशोधिश्चेत्युभे अपि सुकरे, वक्रजडानां तु पालनं विशोधिश्वेत्युमे अपि दुःसाध्ये, यदागम:-"पुरिमा उज्जुजड्डाओ, वंकजड्डाउ पच्छिमा। मज्झिमा उज्जुपणा उ, तेण धम्मे दुहाकए ॥१॥ पुरिमाणं दुव्विसुज्झो उ चरमाणं दुरणुपालओ कप्पो । मज्झिमगाणं तु भवे सुविसुज्झे सुपालए ॥२॥" इतिश्रीउत्तराध्ययने (८५७-८*) ननु ऋजुप्राज्ञानां चारित्रं युक्तं, | परं ऋजुजडानां कथमिति चेद् , उच्यते, सत्यामप्यनाभोगतः स्खलनायामृजुजडानां तीव्रसंक्लेशाभावाद्भावतः शुद्धत्वात्स्थिरभावेनैव चारित्रपरिणामस्तीर्थकृद्भिनिर्दिष्टः, तथा सहकारिवशेन कादाचित्को वाऽस्थिरभावोऽपि न चारित्रपरिणामं हन्ति, न ह्यग्निसंपकोदुष्णमपि वज्र वज्रत्वमपि जहातीति, यदाहुः श्रीहरिभद्रसूरिपादाः-"एवंविहाण व इहं चरणं दिहं तिलोगनाहेहिं । जोगाण थिरो भावो जम्हा एएसि सुद्धो उ ॥१॥ अथिरो अ होइ भावो (इय ते) सहकारिवसेण ण पुण ते हणइ"त्ति (पंचा०८३९) नन्वेवं युक्तश्चरणानपगम ऋजुजडानामार्जवलक्षणस्य गुणस्य सद्भावाद्, वक्रजडानां पुनर्दोषद्वयसद्भावात् कथमसाविति चेदित्यत्राप्युच्यते, | यथा ऋजुजडानामनाभोगतः स्खलना तथा 'मायैव वक्रते'ति वचनाद्वक्रजडानां प्राय: कालानुभावतोऽसकृन्मातृस्थानादेव, तच्च संज्वलनकषायाणामेवातिचारहेतुत्वात् तत्संगतमेवात्र ग्राह्यं,नेतरत ,तस्य चारित्रायुपहन्तृत्वाद् , यदुक्तं-"सब्वेविअ अइआरा संज