________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥२१९॥
संक्षेपविस्त| राविरुदता
संक्षेपं विस्तरं च परित्यज्य प्रकारान्तरेणैव संक्षेपतो विस्तरतो वा रचना संभवति, न चैवं वैचित्र्यं कथमितिशङ्कनीयं, यत आस्तामपरजनः, एकस्यापि जीवस्य कालादिसामग्रीवशात् कर्मणां क्षयोपशमवैचित्र्यं, तशाच विचित्रा रुचयस्तदनुसारेण च शास्त्रादिरचना, यथा संप्रत्यपि माशस्यापि तथाविधोक्तप्रकारेण कर्मक्षयोपशमवैचित्र्यात् कुपाक्षिकविकल्पितमार्गतिरस्कारपूर्वकतीर्थव्यवस्थापने रुचिः, तदनुसारेणैतत्प्रकरणकरणेऽपि प्रवृत्तिः, एवं च सति उक्तप्रकाराणां सूत्राणां विचित्ररचनायामपि न परस्परं विरोधगन्धोऽपि भावनीयः, तत्र दृष्टान्तमाह-'जहे'त्यादि, यथा क्वचित्सूर्यः पूर्वस्यामुदेति, क्वचित | पश्चिमायामस्तमेति, क्वचित्पूर्वस्यामुदत्य पश्चिमायामस्तंगमी,क्वचिन्निजतेजसा दीप्यमानोऽन्धकारप्रकरं प्रस्फोटयन् निषधशिखरमासाद्योदितःक्रमेण पश्चिमायामस्तमितः, क्वचिद्विशेष्यवाचकनामशून्यमपि प्रागुक्तं विस्तरवाक्यं, क्वचित्पूर्वस्यामुदयं प्राप्य पश्चिमायामस्तगते तारादीनां तेजः प्रससारेत्यादावर्थादेव सूर्योऽवगम्यते नापर इत्येवं सर्वत्राप्यविरोध एवेतिगाथार्थः ॥१६०॥ अथ प्रकारान्त| रेणापि कुपाक्षिकोद्भावितं विरोधमपाकर्तुमाह
नामुच्चाराभावे नामुच्चारुव्व अत्थउवलंभो। न विरोही किंतु पुणो निसेहवयणुव्वष्णुवलंभो ।।१६१॥
नामोच्चाराभावे नामोच्चारवदर्थोपलम्भो न विरोधी, नामोचारोऽर्थोपलम्भश्च नाम्न उच्चाराभावस्य विरोधिनौ न स्यातां, किंतु निषेधवचनं पदार्थानुपलम्भश्चेति द्वावपि विरोधिनावित्यर्थः, अयं भावः-अत्र घटोऽस्ति नास्ति चेत्यादि केनापि नोक्तम् , एवं च सति केनचिदुक्तमत्र घटोऽस्ति, यद्वाऽनुक्तोऽपि चक्षुषोपलभ्यते, न चैवं कश्चिद्विरोधः, विरोधस्तु केनचिदस्तीत्युक्तं यद्वा नोक्तं, परं | तत्सद्भावविरोधि नास्तीति वचनं तदनुपलम्भो वा, यद्यत्र घटोऽभविष्यचहि भूतलमिवाद्रक्ष्यदित्यादितर्कावतारेणास्तित्वविरोधः
PAGHOUHGROGROUGHONGKO
॥२१॥