SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सूत्रानुसारेण प्रतिमादिसिद्धिः श्रीप्रवचन पादेः सकाशात परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तरिति, प्रथमालतेन त्वसंभ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि परीक्षा | ८ विश्रामेवाच्यमिति, तथा तेभ्योऽन्ययूथिकेभ्योऽशनादि दातुं वा-सकृदनुप्रदातुंवा-पुनः पुनरित्यर्थः, अयं च निषेधो धर्मबुद्ध्यैव, करुणया तु ॥१५॥ दद्यादपि, किं सर्वथैव न कल्पते इत्यत आह-'नन्नत्थ'त्ति 'शयामिओगेण' तेन इति, न कल्पते इति योऽयं निषेधः सोऽन्यत्र | राजाभियोगात , तृतीयायाः पञ्चम्यर्थत्वाद्राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु-राजपरतत्रता गणः-समुदायस्तदभियोग:अवशता गणाभियोगस्तस्मात् , बलाभियोगो नाम राजगणव्यतिरिक्तस्य बलवतः पारतव्यं, देवताभियोगो-देवपरतत्रता,गुरुनिग्रहोमातृपितृपारवश्यं गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते तद्रक्षार्थमन्ययथिकेभ्यो दददपि न निष्कामति सभ्यत्वमिति, "वित्तीकतारेणं"ति वृत्तिः-जीविका तस्याः कान्तारम्-अरण्यं तदेव कान्तारं-क्षेत्रं कालो वा वृत्तिकान्तारं, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति, 'पीठ'ति पट्टादिकं 'फलंग'ति अवष्टम्भादिफलकं 'भेसन्जन्ति पथ्यं ['अट्ठाईति उत्तरभूतानर्थान् आददातीति] अत्रानन्दश्रावकेण सम्यक्त्वोच्चारेऽन्यतीर्थिकादयस्त्रयोऽपि वन्दनाद्यर्थमकल्प्यत्वेन भणिताः, अर्थात् तत्प्रतिपक्षभूताः स्वतीर्थिकखतीर्थिकदेवान्यतीर्थिकापरिगृहीतार्हच्चैत्यानि अविकल्प्यत्वेनैवाभ्युपगतानि, | तथा गुरुनिग्रहेणेत्यत्रापि चैत्यादिनिमित्तमुक्तं । तथा 'अंबडस्स नो कप्पति अण्णउत्थिए वा अण्णउत्थिअदेवयाणि वा अण्णउत्थिअपरिग्गहिआणि चेइआणि वा वंदित्तए वा नमंसित्तए वा जाव पज्जुवासित्तए वा, ननत्थ अरिहंते वा अरिहंतचेइआणि वा इत्याद्यौपपातिकोपाङ्गे, एतद्वत्येकदेशो यथा-अन्ययथिका:-आर्हतसङ्घापेक्षयाऽन्ये शाक्यादयः 'चेइआई ति अर्हचैत्यानि, जिनप्रतिमा इत्यर्थः, 'नन्नत्थ अरिहंते वत्ति न कल्पते, इह योऽयं नेति निषेधः सोऽन्यत्राईद्वयोर्हतो वर्जयित्वेत्यर्थः, सहि किल परिव्राजक OOOOOOOOROS
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy