________________
श्रीप्रवचन:
परीक्षा ७विश्रामे | ॥१३॥
श्रुतदेवतादिस्तुति
HONGKONGKOOTOHONGKONGHORG
| तर्हि चिरं जीव आयातोऽसि स्वयमेवासदुक्तमार्गेण, श्रुतदेवतायामपि तथा श्रद्धेयमितिगाथार्थः॥१५।। अथ येनाराधिता श्रुतदेवता सर्वजनप्रतीता फलदायिनी संवृत्ता तद्व्यतिकरं गाथात्रयेणाह
तेणेव वीसठाणाराहणमरहंतगुत्तसुनिमित्तं । भणिअं तत्थवि पवयणपहावणा साऽवि कह हुन्जा ?॥१६॥ इअ चिंतापरतंतो जिणभत्तो हेमचंदसूरिवरो। आराहिअ सुअदेविं जाओ कालिकालसव्वण्णू ॥१७॥ राया कुमारपालो निम्मविओ तेण परमसंविग्गो। अज्जवि कित्तिपयाया पवयणपासायसिहरंमि॥१८॥
येन कारणेन तीर्थदसाध्यमपि कियत्कार्य श्रुतदेवतासाध्यं तेनैव कारणेन विंशतिः स्थानकानि अर्हत् १ सिद्ध २ संघ ३आचार्य ४ स्थविर ५ उपाध्याय ६ साधु ७ ज्ञान ८ दर्शन ९ विनय १० चारित्र ११ ब्रह्मचर्य १२ शुभध्यान १३ तपः १४सुपात्रदान१५ अर्हदादिवैयावृत्य १६ समाधि १७ अपूर्वश्रुत १८ श्रुतभक्ति १९ प्रवचनप्रभावना २० रूपाणि तेषामाराधनं-यथोचितविधिना | यथाशक्ति तद्भक्तिकरणं अर्हगोत्रस्य-तीर्थकरनाम्नः सु-शोभनं प्रधानं निमित्तं-कारणं भणितं, वीरेणेति गम्यं, तत्रापि प्रवचनप्रभावना गरीयसी, यतो वस्तुगत्या सर्वाण्यपि स्थानानि तत्रान्तर्भवतीति, सापि प्रवचनप्रभावना कथं भवेत् ?-केन प्रकारेण स्थादित्यमुना प्रकारेण चिन्तापरतत्रः-एवं चिन्तान्वितो जिनभक्तः-तीर्थकराज्ञातत्परो हेमचन्द्रमूरिवर:-श्रीहेमन्द्रसूरिः श्रुतदेवीमाराध्य कलिकालसर्वज्ञो जातः, कलिकालसर्वज्ञ इति बिरुदमुद्वहति स, तेन च कुमारपालो नाम राजा परमसंविज्ञो निर्मापितः, प्रतिबोध्य परमाईतीकृत इत्यर्थः, प्रागुक्तप्रकारेण कीर्तिपताका अद्यापि-सम्प्रत्यपि प्रवचनप्रासादशिखरे-जिनशासनलक्षणप्रासादमस्तके वर्त्तते इतिगाथा: त्रयेण श्रीहेमाचार्येणाराधिता श्रुतदेवता फलवती संपन्नेति दर्शितमिति गाथात्रयार्थः॥१६-१७-१८॥ अथ पुनरपि त्रिस्तुतिकः शङ्कते
GOOOOOOHOROTOHOROSOHORG
॥१३॥