________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१४४॥
पदमात्रव्याख्याने प्रतिमासिद्धिः
HORO OHOROROGROGROPORONORA
लक्षणो निरवशेषः कार्यः, एषः-उक्तलक्षणः विधानं विधिः-प्रकार इत्यर्थः भवति, क-मूत्रस्य निजेनामिधेयेन सार्द्धमनुकूलो योगोऽनुयोगः-सूत्रान्वाख्यानं तत्र, व्याख्याविषये इत्यर्थः, ननु परिनिष्ठा सप्तमे इत्युक्तं त्रयश्चानुयोगप्रकारास्तदेतत्कथमिति, उच्यते, उक्तानामनुयोगप्रकाराणामन्यतमेन केनचित्प्रकारेण भूयो भूयो भाव्यमानेन सप्तवारं श्रवर्ण कार्य, तेन न कश्चिद्दोषः, अथवा कश्चिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिः, उद्घटितज्ञविनेयानां सकृच्छ्वणत एवाशेषग्रहणदर्शनादि"त्यादि श्रीआव० वृ०, न चैवमनुयोगद्वारोक्तविधिना सह भगवत्यायुक्तप्रकारत्रयस्य कश्चिद्विशेषः शङ्कनीयः, उभयत्रापि तौल्यात् , तथाहि-उपक्रमनयलक्षणं द्वारद्वयं तूपोद्घातनिर्युक्तावन्तर्भवति, निक्षेपस्य तु ओघनिष्पन्ननामनिष्पन्नसूत्रालापकनिष्पन्नलक्षणायां नियुक्तावन्तर्भावः, नियुक्तयस्तु सर्वा अपि द्वितीयव्याख्यानप्रकरणे भणिताऽतो द्वितीयभेद एवोपक्रमनिक्षेपनयरूपाणि |त्रीण्यपि द्वाराणि संक्रान्तानि,अनुगमोऽपि कथंचित्रिष्वपि भेदेष्वन्तर्भूतोऽवगन्तव्य इत्युभयत्रापि व्याख्यानविधेरभेद एव बोध्या,एवं |च सति सूत्रस्य सूत्रगतपदादेरपि च व्याख्यानकरणे निक्षेपोपोद्घातसूत्रस्पर्शिकनियुक्तयोऽवश्यं वक्तव्याः, तासामपि सूत्रव्याख्यानरूपत्वाद्, यदागमः-"सुतं पडुच्च तओ पडिणीए-सुत्तपडिणीए अत्थपडिणीए तदुभयपडिणीए"त्ति श्रीस्थानाङ्गादौ(२०८।१२-३३८) अत्रार्थप्रत्यनीको नियुक्त्यादिप्रत्यनीको भण्यते, नियुक्तीनामप्यनुयोगो भणितः, यदागम:-"से किं तं अणुगमे १,२ दुविहे पं०,०| सुत्ताणुगमे निज्जुत्तिअणुगमे'त्ति, तेन नियुक्तीनां स्वव्याख्येयमूत्रापेक्षयाऽर्थत्वं स्वव्याख्यानापेक्षया च सूत्रत्वमिति सूत्रार्थोभयख| भावत्वं बोध्यं, निर्युक्तेरप्यनुगमो नियुक्तिभाष्यचूादिरूपोऽवगन्तव्यः,न चैवं नियुक्तेरपि नियुक्त्यभ्युपगमेऽनवस्थेति शङ्कनीयं,यतो यथा प्रदीपः परं प्रकाशयमेव खात्मानमपि प्रकाशयति तथा उपोद्घातनियुक्तिरप्यन्येषां व्याख्यानभूता सती स्वस्था अपिव्याख्यान
AROGHONGKONGROGROUGHONORONG
॥१४४॥