________________
द्रव्यभाव
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१२५॥
MOHOROHORO
स्तवौ
सजाकरoROROOOOO
प्रवरस्थः-प्रधानस्यन्दनः तत्र वर्तते, द्रव्यस्तवभावस्तवौ विवेचयति-द्रव्यस्तवः खलुरवधारणे श्रावकधर्मः, चः पुनरर्थे, भावो-भाव| स्तवो मुनिधर्मः-साधुधर्म इतिगाथार्थः॥१.१७॥ अथ किं नामोत्कृष्टो द्रव्यस्तवो भावस्तवश्चेति व्यक्तीकरोति___दव्वथओ उक्कोसो जहसत्तिं जिणहराइनिम्मवणं । भावथओ उक्कोसो चारित्तं चेव अहवायं ॥११८॥
यथाशक्ति-शक्त्यनतिक्रमेण जिनगृहादिनिर्मापणमुत्कृष्टो द्रव्यस्तवो भवति, यस्य सुवर्णप्रासादरत्नप्रतिमानिआपणाशक्तिः |स तथैव कुर्वाणो द्रव्यस्तवे उत्कृष्टो भण्यते, एवं यस्य यथा शक्तिस्तथैव प्रवर्त्तमानोऽवगन्तव्यः, यथाख्यातमेव चारित्रमुत्कृष्टो
भावस्तवः, यद्यपि तीर्थप्रवृत्तिहेतू सामायिकच्छेदोपस्थापनीये भवतस्तथापि तयोरप्याराधनं तदर्थमेवेतिकृत्वा न दोष इतिगाथार्थः ||११८॥ अथैवं सिद्धे लुम्पकाज्ञानमाह
तत्थेगयरचाओ सीकारो वावि केण णाणेणं। तत्थवि सिद्धंताओ बलवंतीएऽवि पडिमाए ॥११॥
तत्र-द्रव्यस्तवभावस्तवरूपचक्रद्वयसंयुक्तं धर्मरथे एकतरस्य त्यागः स्वीकारो वा केन ज्ञानेन?, द्वयोर्मध्ये द्रव्यस्तवं परित्यज्य | भावस्तवाङ्गीकारे किं ज्ञानं, न किमपि, किंत्वज्ञानमेव लुम्पकमते, एकेन चक्रेण रथो न निर्वहते तथा द्रव्यस्तवमन्तरेण भावजास्तवेन तीर्थ परम्परायातसामायिकाद्यनुष्ठानं, भावस्तवे विद्यमानादपि सिद्धान्ताद् बलवत्या अपि प्रतिमायास्त्यागो महामोहो, महा| मिथ्यात्वमोहनीयोदय इत्यर्थः, यच्च सिद्धान्तादपि प्रतिमायाः बलवत्वं तच्च 'सिद्धताओ पडिमा' इत्यादिगाथाव्याख्यायां समर्थितमिति, न च भावस्तवे विद्यमानत्वात्सिद्धान्तस्य बलवत्वं भविष्यतीति शङ्कनीय, भावस्तवे विद्यमानानां सर्वेषामपि तथात्वाभावात् , अत एव कायोत्सर्गलक्षणे धर्मकृत्ये "वंदणवत्तिआए पूअणवत्तिआए"ति सूत्रेण साधुभिरपि तत्फलप्रार्थना विधीयते, किंच-आपे
P OROOHOROHORO
॥१२५॥