________________
श्रीप्रवचनपरीक्षा विश्रामे ॥११९॥
प्रतिमाया बलवत्ता
DIGOLOHOSHORORRORORROHORORS
जानामुपकृतिहेतबोन तथा मण्यादीनां मनुजा अपीत्यादिरूपेणोपकार्योपकारकभावमधिकृत्योपकार्यापेक्षयोपकारकं बलवदिति तीर्थादपि प्रतिमा बलवतीति सिद्धम्, एवं प्रतिमापूजने किंचित्फलमस्ति उत नेति, फलमपि शुभमशुभं वा? तदपि महदल्पं वेत्यादि संशये सति 'हिआए सुहाए खमाए निस्सेसाए आणुगामिअत्ताए भविस्सती'त्यादिराजप्रश्नाद्यादिप्रवचनेन तत्संशयोच्छेदो भवति, तथा च तथाविधसंशयोच्छेदमधिकृत्य प्रतिमातोऽपि सिद्धान्तो बलवान् ,यथा साधूनां मनोऽश्वदमने रज्जुकल्पः सिद्धान्तः, यदुक्तं| "पहावंतं निगिण्हामि, सुअरस्सीसमाहिअं। न मे गच्छइ उम्मग्गं, मग्गं च पडिवाइ॥१॥त्ति" श्रीउत्त० (८८७*)इत्यादिरूपेणापेक्षया किंचित्कथञ्चिद्वलवत् , तेन कारणेन जिनवचनमनेकान्तं, स्याद्वादात्मकमित्यर्थः, अत एव घटोऽस्त्येवेत्यादिदुनयवादिनो मिथ्यादृशः, जैनप्रबचने च स्याद् घटोऽस्त्येवेति प्रमाणवाक्यमनेकान्तात्मकम् , अपेक्षयाऽन्यथापि स्यादितिगाथार्थः॥१०८ ॥ अथानेकान्तस्वरूपमाहसव्वं खलु साविक्खं साऽविक्खा पडिपयत्थमवि भिण्णा । भिण्णत्तंऽपेगस्सवि अवरावरवत्थुसंकप्पा ॥१०९॥
सर्व जगद्वतिं यावद्वस्तुजातं खलुरवधारणे सापेक्षमेव, विवक्षितं वस्तु किंचिदपेक्षया कार्यकारि किंचिदपेक्षया च नेतिरूपेण सहापेक्षया वर्तते तत्सापेक्षं, सा चेत्यध्याहार्य, सा चापेक्षा प्रतिपदार्थमपि भिन्ना, भिन्नत्वमप्येकैकस्यापि वस्तुनः अपरापरवस्तुसंक|ल्पाद् भवतीतिगाथार्थः ॥१०९।। अथापेक्षायामुदाहरणमाहनिवपुत्तोऽविअ मित्तं कस्सवि णो तेण रजवइ हुज्जा। गुज्झपवित्तिप्पमुहं मित्तत्ताओ न निवपुत्ता ॥११०॥
नृपपुत्रोऽपि च कस्यापि मित्रं न तेन कारणेन राज्यपतिर्भवेत् , राज्यपतित्वहेतुर्मित्रत्वं न भवति, किंतु नृपपुत्रमेव, गुह्य
GOOHOROUGHOUGHOUGHOUGH
॥११९॥