________________
भी प्रवचनपरीक्षा ८ विश्रामे ॥११७॥
DIGHONGKONGHODINGHO%%%
एवं खु भावपूआ साविकखा होइ दव्वपूआए । अण्णह मुर्णिददाणे तह महए तित्थवुच्छेओ ॥ १०७॥ एवं प्रागुक्तदृष्टान्तैः खुरवधारणे भावपूजा द्रव्यपूजया सापेक्षा, द्रव्यपूजा विषयस्यैव भावपूजा विषयत्वात्, यो द्रव्यपूजायोग्यो न भवति स भावपूजायोग्योऽपि न भवति, यथा निह्नवः, भावपूजा हि तदाज्ञाराधनं सर्वभावेनेह बोध्यं, यदुक्तं - "दुविहा जिणिंदपूआ दब्वे भावे अ तत्थ दव्वंमि । पुप्फाई जिणपूआ जिणआणापालणं भावे || १ ||" इति, अन्यथा भावस्यैव प्राधान्ये तस्यैवाङ्गीका से युक्तो, नेतरस्यापीति स्वीकारे मुनिदाने तथामत्या तीर्थव्युच्छेदः स्याद्, द्रव्यतोऽशनादिदानं द्रव्यदानं तदपेक्षया शुभाध्यवसायो भावदानं तदेव कर्त्तव्यतया युक्तं स्यात्, तथा च साध्वादीनामनिर्वाहे साधूच्छेदः, तदुच्छेदे च नियमात् तीर्थच्छेदः, यदुक्तं- "न विणा तित्थं नियंठे हिं" ति पञ्चाशक वृत्तावितिगाथार्थः ॥ १०७ ॥ अथ 'तित्थयर भासि अत्थे' त्यादिप्रागुक्तगाथायां सिद्धान्त प्रतिमयोः सहोत्पत्तिर्भणिता, तत्र द्वयोर्मध्ये किं बलवदिति शङ्कां निराकर्तुं गाथामाह
सिद्धंता जिणपडिमा बलिआ पडिमाउ तित्थमवि बलिअं । विवरीअंपि कहंची तेणमणेगंत जिणवयणं ॥ १०८ ॥ सिद्धान्तात् प्रतिमा बलिका–बलवती " जिणपडिमाणं अच्चणं करे " इत्यत्र जिणपडिमाणमितिशब्दात् प्रतिमाया आकारनिपण तज्ज्ञानादि न संभवति, तथा प्रतिमा नामाकाराभ्यां शाश्वतस्वरूपा अपि, सिद्धान्तस्तु सूत्ररूपोऽशाश्वतरूप एव, अर्श्वनशब्दमात्रेण न पूजाविधेश्च संभवः, संभवति च सर्व्वमपि तथाविधपूजाविषयीभूतां प्रतिमां दृष्टेति यद्वा सिद्धान्तवाक्याद्वस्तुनोऽपि किंचित्सामान्यतो ज्ञानमात्रं भवति, ज्ञानमपि क्रियासंयुक्तमेव फलदं क्रिया च स्वविषयीभूतां प्रतिमामन्तरेण न स्थात्, न हि समग्र सामग्री सधीचीनापि पाकादिक्रिया निपुणाऽपि स्त्री तन्दुलान् पिना पाकप्रयत्नवती भवति, किंच-मया तुभ्यं लक्षं देयं, स्वया
KOHONGKONGHOSHOHGHONGKONGS
प्रतिमाया
बलवता
॥११७॥