________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥११॥
श्रावकसाध्वोरन्योन्यापेक्षा
DASHOGOOOOOOOOOHOTO
रपि, श्रावकाभावे कस्य धर्मः श्राव्यते?, नहि रोगिणोऽभावे निपुणस्यापि वैद्यस्य चिकित्साकर्म संभवति, तथा “साहूण कप्पणिजं जं नवि दिण्णं कहिंचि किंपि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुजंति ॥१॥"त्ति प्रवचनवचनादतुल्यपुण्यप्रकृतिबन्धहेतवे सुश्रावकत्वभवनाय अवश्यं विपुलैषणीयाशनादिकं साधुम्यो देयमेव, तच्च साधुमन्तरेणासंभवीति साधोरपेक्षा, अत एव साधु| विरहितदेशे श्रावकस्य निवासो न युक्तः, यदुक्तं-"न वसइ साहुजणविरहिअंमि देसे बहुगुणेऽवि"त्ति, साधोरपि चारित्रभारोद्वहन| समर्थस्य मनुष्यशरीरस्थाशनपानखादिमस्खादिमवस्त्रपात्रोपाश्रयभैषजादिकमन्तरेणावष्टम्भासंभवाद् , अशनादिकं च गृहस्थायत्तं,
यदुक्तं-"जे खलु सारंभा सपरिग्गहा तेसिं निस्साए बंभचेरवासं वसिस्सामो"त्ति श्रीसूत्रकृदङ्गेऽधिकारवशादहस्थोऽपि प्रायः श्रावक | एव साधुजनशुश्रूषाकारी स्याद् अतः श्रावकापेक्षा, तथा व्रतादिप्रतिपत्त्यादावपि बोध्यम् , एवममुना प्रकारेण यावदुष्प्रसभो-युगप्रधानो दुष्प्रसभनामा सूरिभविष्यति तावत्तीर्थप्रवृत्तिरच्छिन्ना, न पुनरन्तराले व्युच्छिन्नायाः, तीर्थप्रवृत्तेस्तीर्थकरव्यतिरिक्तस्य केवलिनोऽप्य हेतुत्वात् ,साधुश्रावकयोः परस्परमपेक्षेव, दुष्प्रसहं यावतीर्थप्रवृत्तेरितिभाव इतिगाथार्थः॥१०॥ अथ तीर्थे साधुश्रावकयोः परस्परं सापेक्षतेवेति नियमार्थ दृष्टान्तत्रयनिबद्धं गाथात्रयं विभणिषुः प्रथमगाथामाहअसुहो अहो विभागो सुहो अउवरिल्लओसनाभीओ। अण्णुण्णं साविक्खा निरविक्खा दोऽवि नस्संति ॥१०४॥
खनाभितः अधः-अधस्तनो विभागोऽशुभः “थावरदसगं विवजत्थं" इतिवचनादशुभप्रकृतिजन्यः, च पुनरर्थे, उपरितनो विभागः शुभः-शुभप्रकृतिजन्यः, यदुक्तं-"नाभुवरि सिराइ सुह" "सुभगाउ सव्वजणइटोति" एतौ द्वावपि विभागौ अन्योऽन्य सापेक्षावेव श्रेयोभाजौ, निरपेक्षौ किमसाकमशुभावयवेनेति धिया पृथक्कृतौ द्वावपि नश्यतः-विनाशं प्राप्नुतः, नाभेरधोभागकल्पः
OSHOGHONORONODOHORI