________________
श्रीप्रवचनपरीक्षा ॥१७॥
उपकेशीयविचारः
HamalTRAITIHARILAMIRMATHALIBURIATIHARLIAMERIENTATIBANDIINITIATIMEETINUPAMRITA
INITISTim
तीर्थबाह्यतामणने न किञ्चिद्वाधकं पश्यामः। क्वाप्यागमे केशिकुमारसंतानीयोऽमुकनामा स्थविरो होइमांगलिकत्वेन प्रतीतो महानुभाव इत्याद्यदर्शनात् , ननु न हि वयं हवइमांगलिकानामतीर्थत्वं वदामः, किंतु वीरतीर्थं तदायत्तमेव जानीमः,परं यदा श्रीकेशिकुमारेण श्रीगौतमसमीपे पञ्चमहाव्रतोचारनियतश्वेतवर्णाद्युपेतनेपथ्यमार्गोऽङ्गीकृतस्तदानी प्रतिक्रमणादिसामाचार्यां होइमंगलमितिपाठे च सन्नपि किंचिद्भेदः श्रीगौतमस्याप्यभिमतः, अतो न केशिकुमारेण परित्यक्तः, स चास्माकं परम्परागत इति धीरस्माकमिति चेत् , तदयुक्तं, नमस्कारादिषडावश्यकपाठस्य प्रतिक्रमणाधनुष्ठानस्य च चतुर्विशतेरपि तीर्थकृतांतीर्थेषु भेदाभावाद्, अन्यथा श्रीऋषभतीथिकानां कोटिशःश्रावकादीनां श्रीअजिततीर्थोत्पत्तिसमये नमस्कारादिषडावश्यकस्य पाठस्यान्यथासंभवे प्राचीनपाठविस्मारणपुरस्सरं पुनरन्यथा पाठनं युज्यते,एवं यावत् श्रीवीरतीर्थोत्पत्तिसमयेऽपि, तथा चाच्छिन्नश्रावककुलमर्यादा विलुप्येत, तस्मात् कुलक्रमायातनियतानुष्ठानातिरिक्ते कथंचिद्भेदोऽपि न दोषाय, तत्रापि नमस्कारपाठस्य नित्यत्वात् तीर्थवर्तिना केनापि पराकर्तुमशक्यत्वात् , किंच-पाठपरावृत्तिरपि किंचिनिमित्तमासाद्यैव ज्यायसी, यथा चतुर्विंशतिस्तवाध्ययने प्रत्युत्सपिण्यादौ केवलज्ञान्यादिऋषभादिपद्मनाभादिरूपेण तीर्थकृन्नाम्नां पार्थक्य पाठपरावृत्तिकल्पनायां कारणं, साऽपि कल्पना न तीर्थान्तरमधिकृत्यापि, तत्रोक्तकारणाभावाद् , एवमङ्गादिष्वपि यत्र क्वापि तथाविधकारणं तत्रैव पाठपरावृत्तिः कल्पनीया,न पुनः सामायिकादिद्वादशाङ्गीपर्यन्तस्य सकलस्यापि श्रुतस्य प्रतितीर्थ पाठपरावृत्तिरेव कल्पनीया, निमित्ताभावे नैमित्तिकस्याप्यभावात् , वस्तुतस्तु गणधराणां ज्ञानावरणीयादिकर्मक्षयोपशमवैचित्र्यमेव पाठरचनायां हेतुः, तदपि पाठभेदमधिकृत्य नियतानुष्ठानोपयोगिश्रुतातिरिक्तस्थले बोध्यम् , अन्यथा द्वयोर्बहूनां वा गणधराणां परस्परमावश्यकादिमण्डलीव्यवहारो न स्यात् , श्रावकाणामपि साधु
HumilBHIHARi lithilimdillilitiemusilliATIONIREEPROHIBITAMIL
BARAHIMALAAPAIKI GHARAPARI NIRITAMARIAHINITIAPAHARI MISHRAITHILI