________________
स्थापनाचार्या
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५६||
वकेणापि वन्दनादिकं चिकीर्षुणा गुरोरभावे साधुवत स्थाप्य एव स्थापनाचार्यः,इत्येवं सिद्धान्तप्रमाणेन युक्तिबलेन च स्थापितेऽपि स्थापनाचार्ये निजानल्पकुविकल्पसंकल्पितकुयुक्तिशतं मुग्धजनप्रतारणपरः परः प्रजल्पति यथा देशान्तरस्थितं गुरुं वयमपि व्यवस्थाप्येवानुष्ठानं कुर्मो, नान्यथा, ततश्च नावध्यभावादिदूषणानुषङ्गः, मैवं वोचः,एवं हि गुर्वनुष्ठानकोरन्तरा गजाश्वरथपदातिकोटीसंटेकककटकादिसंचरणादिना पडिधावश्यके कायोत्सर्गादिष्वनेके उच्छेदनकादयो दोषाः प्रसज्येयुरित्यलं कदाग्रहग्रहकर्थितचेतसा सममतिप्रसङ्गेनेति स्थापनाचार्यस्थापनेत्यादि अनेकयुक्तिभिः पूर्वाचार्यमुखबस्त्रिकादिव्यवस्थापनं कृतमिति गाथार्थः॥४॥ अथ मुखवस्त्रिकाविचारे कथिते सर्वमपि तन्मतसंबन्ध्युक्तमेवेति दर्शयति
सच्छंदमइविगप्पिअमयमूलुच्छेदगं जिणिंदुत्तं । इक्कंपि जुत्तिजुत्तं नाहिमय कि बहहिंपि?॥४२॥ स्वच्छन्दस्य-गुरुपारन्तव्यविरहितस्य या मतिः-बुद्धिः यद्वा भावनिर्देशात्स्वच्छन्दत्वेन या मतिस्तया विकल्पितं यन्मतं--कुपाक्षिकमार्गस्तस्य यन्मूलं-प्रथममुत्सूत्रं क्षपणकानां नाम्यव्रतं १ पौर्णिमीयकानां पूर्णिमापाक्षिकर औष्ट्रिकाणां स्त्रीजनपूजानिषेधः३ स्तनिकानां मुखवस्रिकानिषेधः४ मार्द्धराकानां फलादिपूजानिषेधः५ आगमिकानां श्रुतदेवतास्तुतिनिषेधः६ लुम्पाकानां प्रतिमानिषेधः ७ कटुकानां संप्रति साधुदर्शनाभावः८ बन्ध्यानामागमिकवच्छृतदेवतानिषेधः९ पाशस्य निद्रादिकरणे साधूनां जिनोपदेशनिषेधः१. | इत्यादि, तस्योच्छेदकंतादृप्ररूपणाविपपराकरणामृतकल्पं जिनोन्द्रोक्तमेकमपि युक्तिप्रयुक्तं-विचार्यमाणं युक्तिक्षम नामिमतं-न सम्मतं,यद्यप्येतदागमे भणितं परमन्यत् किमपि सिद्धान्तवचनं दर्शयन्त्वित्यादिवचोमिः प्राक्प्रदर्शितवचने रुचिर्न भवेत् , ज्ञातधर्मकथाङ्गोक्तद्रुपदीकृतजिनपूजोपेक्षकलुम्पाकवत् . किं बहुभिरपिं वचनैः? स्यात् तादृक्पुरुषस्य सिद्धान्तवचनशतैरपि, किमपि न
॥४५६॥