SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ h, IPS साध्वीमिः श्रीप्रवघनपरीक्षा ४विश्रामे ॥३९६॥ | पूर्वनिपातः, संविमो द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मृगः सदैव त्रस्तमानसत्वाद्, भावतो यः समारभयोद्विनः पूर्वरात्रापररात्रकाले संप्रेक्षते-किंवा मया कृतं? किंवा कर्तव्यशेष ? किंवा शक्यमपि तपःकर्मादिकमहं न करोमीत्यादि, 'बजउत्ति अकारप्रश्लेषादवयं-पापं सूचनात्सूत्रमितिकृत्वा तद्भीरुः-अवद्यमीरुः,ओजस्तेजश्चोभयमपि वक्ष्यमाणलक्षणं तद्विद्यते यस्य स ओज-I स्वी तेजस्वी वेति,संग्रहो द्रव्यतो वस्त्रादिभिर्भावतः सूत्रार्याभ्याम् ,उपग्रहो द्रव्यत औषधादिमिः भावतो ज्ञानादिमिः,एतयोः संयतीविषययोः संग्रहोपग्रहयोः कुशलः,सूत्रार्थविद्-गीतार्थः,एष एवंविधो गगाधिपतिः-आर्थिकाणां गणधरः स्थापनीयः४॥ अथौजस्तेजसी व्याचष्टे-'आरोह' व्याख्या, आरोहो नाम-शरीरेण नातिदेय नातिहस्वता परिगाहो-नातिस्थौल्यं नातिदुर्बलता,अथवा आरो| इ:-शरीरोच्छ्रयः परिणाहो-बाबोर्विष्कम्भः,एतौ द्वावपि तुल्यौ न हीनाधिकप्रमाणौ 'चिअमंसो'त्ति भावप्रधानत्वानिर्देशस्य चितमांसत्वं नाम वपुषि पांसुलिका नाऽवलोक्यन्ते. तथा इन्द्रियाणि च प्रतिपूर्णानि, न चक्षुःश्रोत्राद्यवयवविकलतेति भावः, अथैतदारोहादिकमोज उच्यते तद्यस्याति स ओजस्वी, तेजः पुनर्देहे-शरीरे अनपत्रप्यता-अलजनीयता, दीप्तियुक्तत्वेनापरिभूतत्वं, तद्विद्यते यस्य स तेजस्वीति,गतं गणधरप्ररूपणाद्वारम् ,अथ क्षेत्रमार्गणाद्वारमाह-'खित्तस्स उ०' व्याख्या-क्षेत्रस्य संयतीप्रायोग्यस्यानुपूर्व्या 'थुइमंगलमामंतण' इत्यादिना पूर्वोक्तप्रकारेण प्रत्युपेक्षणा गणधरेण कर्त्तव्या, आह-किं-केन हेतुना गणधरः स्वयमेव प्रत्युपेक्षणाय ब्रजति ?, उच्यते, यो बलीवईवारी चरति स एव तृणभार वहति,एवं यो निर्ग्रन्थीगणस्याधिपत्यमनुभवति स एव सर्वमपि तचिन्ताभरमुदहति, आह-संयत्यः किमर्थं न गच्छन्तीत्युच्यते-'संजई०' व्याख्या, यदि संयत्यः क्षेत्रं प्रत्युपेक्षितुं गच्छन्ति तत्राचार्यस्य चतुर्गुरवः आज्ञादयश्च दोषाः, यथा शकुनिका पक्षिणी श्येनस्य गम्या भवति 'पेसित्ति यथा वा मांसपेसिका ॥३९६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy