________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
1136711
कृत्वा भोक्तव्यम्, अन्यथा त्वनियम इति नवपदवृत्तौ इति गाथार्थः ॥ ८९|| अथ दूषणान्तरमाह - किंच मुणिसंविभागो नवमीपडवासु चैव नऽण्णासु । उपवी तवपोसहगहिआ कह पखिते सो ? ॥९०॥ किंचेति दूषणाभ्युच्चये, खरतरमतेऽतिथिसंविभागो नवमीप्रतिपदोरेव तिथ्योः संपद्यते, नान्यासु तिथिषु यतश्चतुष्पव तपः पौ| षधगृहीता-चतुर्थादितपःसमन्विता पौषधनियता, तथा च कथं पाक्षिकान्ते- पाक्षिकपारणके पूर्णिमामावास्ययोः 'सो'त्ति अतिथिसंविभाग इत्यक्षरार्थः, भाषार्थस्त्वयं- पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयावित्यागमबलेन चतुष्पव्र्व्यामेव पौषधो | जिनाज्ञा, नान्या स्विति खरतराकृतं तत्रेदं प्रष्टव्यं भोः खरतर ! प्रतिनियतदिवसशब्देन चतुष्पथ्ये॑वोच्यते उत यथासंभवदिवसो वा ?, आद्येऽतिथिसंविभागोऽष्टम्यादिषु तिथिष्वेव कर्त्तव्यः स्यात्, नवम्यादी तु चतुष्पत्वाभावाद्, द्वितीये पौषधिकानां भोजनानङ्गीकारेण | चतुष्पव्र्व्या चतुर्थादितपःसमन्वितः पौषधः, अतिथिसंविभागस्तु तत्पारणक एवेति नियमे सिद्धे प्रतिपन्नवमीभ्यामतिरिक्तासु तिथिष्वतिथिसंविभागो न जिनाज्ञेति संपन्ने कथं पूर्णिमायाममावास्यायां वाऽतिथिसंविभागः कार्यते ?, पौषधमधिकृत्य यथा प्रतिपद्वितीयाद्यास्तिथयस्तथाऽतिथिसंविभागमधिकृत्य पूर्णिमामावास्ये अपि, तस्माद्यथा श्री आवश्यकचूर्ण्यादौ पौषधिकानां पारणके नियमेनातिथिसंविभागोऽन्यत्र त्वनियमेन तथा पौषधोऽप्यष्टम्यादिषु नियमेन शेष तिथिष्वनियमेनेति गाथार्थः ॥ ९० ॥ अथ पुनरपि न्यूनमुत्सूत्रमाहजं भोअणपडिसेहो पोसहिआणं तमृणमुस्सुत्तं । भुत्तिजुअपोसहाणं जिणभणिआणं तु पडिसेहो ॥९१॥ यत्पौषधिकानां भोजन प्रतिषेधस्तद्नमुत्सूत्रं भवति, अधोनत्वं व्यक्तीकरोति- 'भुत्ति'ति यतो भुक्तियुक्तानां भोजनसंयुक्तानां पौषधानां जिनभाषितानां तुरप्यर्थे जिनोक्तानामपि निषेधः स न्यूनमुत्सूत्रमिति गाथार्थः ॥ ९१ ॥ पौषधिकानां भोजने युक्तिमाह
पौषध
भोजनं
॥३८१||