SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पूपिकापर्युषितता श्रीप्रवचनपरीक्षा ४विश्रामे ॥३५३|| स्य तन्महामोहविलसितं, यतः बहुदिवससंबन्धिनो ये राद्धाः कुल्मापास्तेऽतिविनष्टाः पामराणामप्यभक्ष्याः अध्यक्षसिद्धाः, अविश्वासे च राद्धान् कुल्माषान् दिनत्रितयं यावत्संस्थाप्यावलोकनीयं, नहि हस्तकङ्कणनिरीक्षणार्थ दर्पणान्वेषणं युक्तमिति लोकाभाणकोऽपि, ननु कथं तर्हि तथाविधकुल्माषग्राहित्वेन भगवतो वर्णनमितिचेत् सत्यं, नहि वयं तद्वाक्यमात्रमपि नाभ्युपगच्छामः, किंतु अभक्ष्यमात्रभक्षणबद्धकक्षस्य तवामिप्रायाद्भिन्नाभिप्रायकं तत्पदं,तथाहि-कुल्माषस्तावदर्धस्विनो माषादिरुच्यते,यदुक्तं-"कुल्मासस्तु यावकः" कुले न मस्यति परिणमते वा वृषोदरादित्वात् , कुल्माषोऽपि,तथा च बहुदिवससिद्धस्थितकुल्माषाः बहुदिवस|संबन्धिनोऽग्निसंस्कृता बकुलास्ते च तथाभूताः प्रायो नीरसा एव साधूनामुचिताः, न पुनः खरतरमुखयोग्यं द्विदलादि गद्धानमनेकदिवससंस्थितमपि,ननु भवतु विदलं तथाभृतं परं बहुदिवससंभृतगोरसगोधूममण्डकं वेतिवचनात्पयुपितपूपिकाग्रहणं तु युक्तमेवेतिचेत् ,मैवं,तत्र पर्युषितपूपिकाग्रहणविधेर्गन्धस्याप्यभावात् ,तथाहि-यथाऽत्र बहुदिवससंभृतगोरसमण्डकशब्देन बहुदिवससंभृतं घृत| मेव ग्राह्यं, न तु दध्यादि,दिनद्वयायुपरिवर्तिनस्तस्य निषिद्धत्वाद् ,यदुक्तं-"दध्यहर्द्वितीयातीतं, कथितान्नं च वर्जयेदि"ति योग०, गोरसशब्देन धृतमप्यागमे प्रतीतमेव, यदागमः-"चत्तारि गोरसविगईओ पण्णताओ, तं०-दुद्धं दहि नवणीयं घयं चे"ति, | श्रीस्थानाङ्गे, (२७४) तथा बहुदिवससंभृतमण्डकशब्देन शुष्कमण्डकाः-खर्खराः जनप्रतीता बोध्याः, तेषामेव संखण्ड्यादावुद्धरितानामातपस्थापनपुरम्सरं रक्ष्यमाणत्वात् , तचाद्यापि जनप्रतीतम् ,अत एव नात्र पूपिकाशब्दः, पूपिकानां संखंड्यामनुपयोगात ,मण्डकानामेवोपयोगात् , पूपिकानां तु प्रायः प्रतिदिवसं यथोपयोगं विधीयमानत्वेन तवृद्धरसंभवात् कुतः आतपदानादिना खर्खरादिकरणमिति, आर्द्रपूपिका तु बहुदिवससंबन्धिन्यः पामगणामप्यनमिमताः कुतः खरतरस्य तव तद्भक्षणाभ्यामः प्रादरभृदिति HIMAAN ॥३५३।।
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy