________________
पाठपरावचनं
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३२॥
प्रभाचार्यण षडावश्यकबालावबोधे पौर्णमासीसु चतसृष्वपि चतुर्मासकपर्युषणातिथिष्वित्यर्थः इत्येवमन्यथापाठं कृत्वा सूत्रकदङ्गवृत्तावुक्तमित्यादिवचसा वृत्तिः सम्मतितया दर्शिता, एवं "उद्दिट्टमिचउद्दसी" इत्यादिगाथा संदेहदोलावल्यां सप्तत्रिंशत्तमा, संदेहदोलावलीसूत्रं च जिनदत्तमरिकृतं, तद्याख्याने चोद्दिष्टा-विशेषपर्वत्वेन प्रवचने प्रसिद्धास्तिथयः, यदुक्तं मूत्रकृदङ्गवृत्तौ "चाउद्दसमुद्दिवपुण्णिमासिणीसु"ति आलापकं विवृण्वता शीलाङ्काचार्यणोद्दिष्टासु-महाकल्याणकसंबन्धितया-पुण्यतिथित्वेन प्रख्याताविति, ताश्चतुर्मासकसांवत्सरिकमहाकल्याणकदिनान्युच्यन्ते इत्याद्यसंबद्धमेव भाषितं, तथा 'माहणं गोअरओ वुच्छिण्णो समाणुभावाओ। अजाणं पणवीसं सावयधम्मो अ वुच्छिण्णो।।९।। इति तीर्थोद्गारगाधायाः कापि व्याख्यानुपलम्भेऽपि श्रावकधर्मश्चात्र प्रतिमारूपो ज्ञेयः,ततः संप्रत्यपि ये श्रावकेभ्यो भिक्षां ग्राहयन्ति तदागमबाधितमित्यादि षष्टिशतकवृत्तौ स्वमतानुरागेण विकल्प्यार्थो लिखितः,यतः संप्रति काले विशेषतः प्रतिमावहनेन तुलनां विधाय प्रत्रजतीति पश्चाशकवृत्तौ श्रीअभयदेवसूरिभिर्व्याख्यातमित्यग्रे दर्शयिष्यते इत्यादि पर्यालोच्य खरतरोक्तौ तदुक्तसम्मतौ च न विश्वसनीयमेव,ननु राकास्तनिकाभ्यामपि तथोक्तं दृश्यते, तथाहि-"कालगजेहिं कारणिआ चउत्थी पवत्तिआ, तबसेण य चउम्मासिआणि चउहसीए आयरिआणि"ति ग्रन्थकारोक्त विद्यमानेऽपि "तबसेण य पाखिआणि चउहसीए आयरिआणि"त्ति कापि परावृत्य लिखितं, तथा 'इत्तो अ अहिगरम य निष्फत्तिं मे निसामेह"त्ति प्रमुखगाथात्रयात्मक ज्योतिष्करण्डसूत्रे३ प्राभृतके (गा०८९) सूच्यग्रे मुशलप्रवेश इति न्यायमवगणय्य "छट्टिसहिआ न अट्ठमि तेरसिसहिन पखिअंहोड़। पडवइसहिअंकआवि इअ भणिवीअरागेहिं॥१॥ इत्यादिगाथादशक पूर्णिमापाक्षिकाभ्युपगन्त्रा प्रक्षिप्तं, गाथाबन्धोऽपि गोपालवाक्यममुद्भव इव प्रतिभानि, एवमसत्यग्रन्थसम्मतिदर्शनेन |