________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५८॥
जिनवल्लभजिनदत्तविचारणा
निष्काशनमेव श्रेय इत्यादिप्रकारेण तिरस्कृतः, रुद्रपल्लीयास्तु निजप्रकरणप्रशस्त्यादावभिनवगौतमस्वामीति प्रतिपन्नाः,तत्र विचारणीयं-किं वर्णनं प्रमाणीक्रियते ?, निष्काशकस्याभ्युपगन्तुर्वेत्यादि विचारणायां यत्तीर्थसम्मतं तदेव सत्यमितिगाथार्थः ॥१३॥ अथैवमप्युक्तं वर्णनं कथं केन दृष्टान्तेनेत्याह| जह सिंहं निअपिअरं वणिजंतं मुणिअमिअपमुहा। निअनिअपिअरं गयघडविदारयं वणयंति मुहा ॥१४॥ | यथा निजपितरं वर्णयन्तं सिंहं श्रुत्वा मृगप्रमुखा निजनिजपितरं गजघटाविदारकं मुधा वर्णयन्ति,मृगादयः श्वापदा जानन्तिनिजपिता इत्थमेव वर्ण्यते, तेन यथा सिंहेन निजपिता वर्ण्यते तथाऽस्माभिरपि निजजनको वर्ण्यते, तत्र सिंहेन वर्णन सत्यं, शेषमसत्यमितिगाथार्थः ॥१४॥ अथ प्रकारान्तरेण दृष्टान्तमाह
अहवा सासणमूरि पासिअ पासंतकुमइवग्गंपि। तित्थअणुगरणमित्तं तन्भत्ता वणयंति मुहा ॥१५॥ अथवा 'शासनमूरिं' जैनप्रवचनाधिपति मूरिमर्थात् स्तु तेवन्दनपूजनादिपूज्यक्रियाविषयीक्रियमाणं दृष्ट्वा 'पाशान्तकुमतिवर्गमपि' | पाशचन्द्रपर्यंतकुपाक्षिकवर्ग तद्भक्ताः दिगम्बरादिपाशचन्द्रपर्यतानां भक्ता वर्णयन्ति, कथं ?-तीर्थानुकरणमात्रं यथा स्यात्तथेति क्रियाविशेषणं, यथा तीर्थे प्रतिक्रमणादिक्रियाणां यानि नामानि तानि तानि नामानि निजमतिविकल्पितक्रियाणामपि सूर्यमरीचितापोपतप्तचक्षुभिर्मरुमरीचिकायां जलसंज्ञामिव वदन्ति, तथा साधुसाध्वीश्रावकश्राविकादिसंज्ञा तथा तेषां भक्तिः साधर्मिकवात्सल्यमित्यादि तीर्थानुकरणमेव, तच्च मुधा-व्यर्थमेव, वस्तुतस्तथास्वरूपाभावात , नहि शुक्तिशकले रजतझानात्तद्धिया प्रवर्त| मानोऽपि रजतलाभवानिति दृष्टान्तेन तीर्थानुकारिणोऽपि कुपक्षास्तीर्थप्रतिपक्षाः, तेषां तद्भक्तः क्रियमाणं वर्णनमकिश्चित्करमेवेति
॥२५८॥