________________
श्रीप्रत्र
उपधानस्थापना
चनपरीक्षा ३विश्रामे ॥२२४॥
शुद्धिर्या वर्तते सा आलोचनाविधिवत , यथाऽऽलोचनां जिघृक्षःशुद्धपरिणामो गुर्वादिसामग्र्यभावे सदभिमुखोऽनालोचितपातकोऽपि शुद्धो भवति तथाऽयमपि, परं नायं प्रकारः सर्वत्र प्रमाणं, कथंचित्कादाचित्कत्वात् , नहि मरुदेवीसिद्धिमपेक्ष्य द्रव्यचारित्रग्रहणे निरादरता युक्तेतिगाथार्थः ॥१२८ ॥ अथोपधानतपोऽपि श्रुताध्ययनयोग्यस्यैवेति योग्यायोग्ययोः स्वरूपं गाथाष्टकेन | विवक्षुः प्रथमगाथामाह--
जुग्गाजुग्गविआरो अजायणझावणंमि जिणभणिओ।
आमघडजलाहरणविसेसओ महसुअखंधे ॥१२९॥ ___ 'योग्यायोग्ययोर्विचारः' अयमेतस्य श्रुतस्याध्ययने योग्योऽयोग्यो वेत्येवंरूपेण पर्यालोचनमर्थात्तदध्यापकस्याध्ययनाध्यापने जिनमणितः-तीर्थकृतोक्तः, किमुदाहरणाद् ?-'आमघटजलोदाहरणाद् , आमे-अपक्के घटे जलं यथा द्वयोरपि विनाशहेतुः, यदागमः-"आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धतरहस्सं अप्पाहारं विणासेई" ॥१॥३-वृत्तौ १३७-२ नं-वृत्ती |५५-२पंच-९८२) इति, महाश्रुतस्कन्धे अर्थात्तदध्ययने विशेषतो योग्यायोग्यविचारो युक्तः, सर्वश्रुताभ्यन्तरभृतत्वेन परममन्त्रात्मकत्वादिति गाथार्थः ॥१२९॥ अथ योग्यस्य सामान्यतो विशेषतश्च लक्षणमाहसामण्णेणं जोग्गो अध्बुग्गहिअमई सुहंमण्णो। बिहिआराहणरसिओ गुरूवएसंपऽभिमुहो वा ॥१३०॥
सामान्येन-नमस्काराध्ययनार्हस्य सामान्यलक्षणं तावदव्युदाहितः सन् शुभमन्यः, कुपाक्षिकैरव्युग्राहितः शुभं-नमस्काराध्ययनं हितमिति मन्यमानः सर्वोऽपि सामान्येन नमस्काराध्ययनयोग्यः, अथोत्तरार्द्धन विशेषलक्षणमाह-'विहीं'त्यादि, विध्या
aaiNASEARRIERHI PRITamatiPESARILAMUDAmALI
T ER
॥२२४॥