________________
श्रीप्रव
श्रीमहानिशीथ
चनपरीक्षा ३विश्रामे ।।२१२॥
प्रामाण्यम्
देयमित्यत्रानुपधानिनो नमस्काराध्ययनेऽनन्तसंसारितोक्तेति गाथार्थः ॥१००॥ अथ पूर्वपक्षिणोऽभिप्रायमाह| जइ एअंपिअ वयणं सम्मं ता निअमणंतसंसारी । सबो सावयवग्गो चउपंचविवजिओ हुज्जा ॥१०१॥ । यद्येतत्प्रागुक्तं वचनं सम्यग्भवेत् ता-तर्हि नियमाचतुष्पञ्चविवर्जितः सर्वोऽपि श्रावक श्राविकावर्गोऽनन्तसंसारी भवेदित्यक्ष| रार्थः, भावार्थस्त्वयं-प्रायः श्रावककुलोत्पन्नानामुपधानवहनमन्तरेणैव नमस्काराध्ययनादि दृश्यते, तेषां तदध्यापकानां चानन्त| संसारिता कथं युक्तति गाथार्थः ॥१०॥ अथ पूर्वपक्षमुपसंहरनेव सिद्धान्तमाह
तेणं खलु तं सुत्तं अपमाणं अम्हमेस संकप्पो। इअ चे पवयणपरमत्थसुण्णचित्तस्स चिट्टेअं॥१०२॥
तेन कारणेन प्रागुक्तलक्षणेन तत्सूत्रं-श्रीमहानिशीथमप्रमाणमेषोऽस्माकं-राकारक्तानां संकल्प इति पूर्वपक्षोपसंहारः, सिद्धा|न्तमाह-'इअ चे'त्ति इति चेदुच्यते एवं प्रागुक्तं प्रवचनपरमार्थशून्यचित्तस्य चेष्टा, यथा देवतायत्तस्य यथा तथाऽविमृश्य जल्प| तश्चेष्टा-वाकाययोः क्रियाविशेषो परेषामुपहास्यहेतुस्तथाऽस्यापीति गाथार्थः ॥१०२॥ अथ प्रागुक्तं कथमित्यत्र हेतुमाह
जमिणं दुवालसंगं गणिपिडगं पाणिणो अणाणाए । पुहवाइविराहित्ता भमंतऽणंते भवे घोरे ॥१०३॥
यद्-यस्मात्कारणादिदं द्वादशाङ्ग-सामायिकादिदृष्टिवादपर्यन्तं गणिपिटकं अनाज्ञया-जिनाज्ञामन्तरेण विराध्य 'प्राणिनो' | जीवाः साध्वादयोऽनन्तान् भवान् नारकादिरूपान् घोरान्-दुःखगहनात्मकान् भ्रमन्ति-पर्यटन्ति, यदागमः-"इमं (इच्चेइयंमि)
दुवालसंगं अणाणाए विराहेत्ता अतीते काले अणंता जीवा चाउरंतसंसारकंतारं परिअट्टिसु, अणागए काले परिअट्टिस्संति, पडु|प्पन्ने काले संखेज्जा जीवा जाव परिअद्भृति"त्ति नन्दीसूत्रे (५८) इति गाथार्थः ॥ १०३ ।। अथाज्ञाया अभावोऽनाज्ञेतिकृत्वा
॥२१॥