________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥१८६॥
ल्पग्रन्थं महार्थं च जिना ब्रुवन्ति, शब्दैरल्पमर्थेन च महदित्यर्थः, यदागमः- “अप्पग्गंथमहत्थं बत्तीसादोसविरहिअं जं च । लकूखणजुत्तं सुत्तं अट्ठहि अ गुणेहि उववेअं ॥ १ ॥ ( ३- ८८०) तत्र द्वात्रिंशदोषा अमी - " अलिअमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमहिअमूणं पुणरुत्तं वाहयमजुत्तं ||१|| कममिष्ण वयणमिन्नं बिभत्तिमिन्नं च लिंगभिन्नं च । अणमिहिअमपयमेव य सहावहीणं ववहिअं च ||२|| कालजइच्छविदोसो समयविरुद्धं च वयणमित्तं च । अत्थावसीदोसो नेओ असमासदोसो | अ ||३|| उवमारूवगदोसो निद्देसपयत्थऽसंधिदोसो अ । एए अ सुत्तदोसा बत्तीसं हुंति नायवा ||४|| (३।८८१-२-३-४) इति श्री अनुयोगद्वारवृत्तौ, तथा “निद्दोसं सारवंतं च, हेउजुत्तमलंकिअं । उवणीअं सोवयारं च, मिअं महुरमेव य ॥१॥ (२-५१*३-८८५) इति कल्पभाष्यपीठेऽपि सूत्रलक्षणम्, एतादृक्सूत्रलक्षणयुक्तं सूत्रं नानेकशब्दैरेकस्मिन्नर्थे वाच्ये सति संभवति, प्रत्युताल्पार्थमहाग्रन्थत्वेन वैपरीत्यात्, तस्मादमावास्यापूर्णिमाभ्यां यथा पाक्षिकं वाच्यतया निर्दिष्टं तदपेक्षया एकेनैव पाक्षिकशब्देन पाक्षिकं वक्तुं | युक्तम्, अयं भावः- पूर्णिमाऽमावास्ये यदि पाक्षिकतिथी अभविष्यतां तर्हि सूत्रकारो गणधरः सर्वत्र भवतु मा वा क्वचित् पाक्षिकशब्दप्रयोगमदास्यत्, तथाच "चाउसट्टमीपकूखिएस पडिपुण्णं पोसह " मित्याद्यभणिष्यत् तच्च क्वापि नोक्तम्, अतो न पूर्णिमामावास्ये | पाक्षिकं, ननु तर्हि चतुर्दशीशब्दस्थाने पाक्षिकमित्येव कथं नोक्तमितिचेदुच्यते, पाक्षिकचतुर्दशीशब्दयोः पर्यायरूपत्वेनैकस्वरूपत्वादेकशब्दवाच्यत्वाव्यभिचारादितिगाथार्थः ||७४ || अथ प्रायः सुखावबोधां युक्तिमाह
चउदसिपखिअतित्थं अच्छिन्नं अज्ज जाव वट्टेइ । जं तस्स मूलमण्णं पवहओ नत्थि तित्थयरा ॥ ७५ ॥ चतुर्द्दश्यां पाक्षिकम् अर्थात् पाक्षिककृत्यं तत्र तीर्थं, तदाश्रितं तीर्थमित्यर्थः, कथम्, अद्य यावदच्छिन्नमिति, अच्छिन्नं, न पुनस्त्रुटि
पूर्णिमापाक्षिकप्रतिषेधः
॥१८६॥