________________
|तिलकाचायतिरस्कारः
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१७३॥
पइ8 साहु ॥२॥ इति दोधकद्विकेन साक्षादुक्त एव साधुः कथं न स्वीक्रियते ?,किंच-श्रावकोऽपि त्वया द्वादशव्रतधारी तदिनत्र-] |ह्मचारी कृतोपवास इत्यादिविशेषणैर्गुणरत्नालङ्कृतो भणितः, सोऽपि यदि विशेषतः संवरवान् परिगृह्यते तर्हि कृतस्नानचन्दनविलेपनकनककङ्कणमुद्रालङ्कृतशरीराद्यपेक्षया अकृतस्नानादिकोऽभूषितश्च वरीयान् , अथ प्रतिष्ठानिमित्तं स्नानविलेपनादिकं न संवर-| | मालिन्यहेतुः,किंतु तत्कार्यप्रसाधकत्वेन गुण एवेति चेत् तर्हि साधुना किमपराद्धं ?,तावत्कार्यमानोपयोगि शौचादिकर्म कुर्वाणोऽपि
साधुः साधुरेव, तत्कृतचारित्रमालिन्याद्यसंभवाद्, एतेन दमयन्त्यादिनिदर्शनमपि निरस्त, श्राविकायामुक्तलक्षणलक्षणस्याप्यसं| भवात् , नहि श्राविका सदशवस्त्रयुगलवत्येव स्यात् , कञ्चुकाद्यभावे तीर्थकदाशातनापत्तेः, किंच-भोः तिलकाचार्य ! शास्त्रं तु | दोधकत्रिकं तदप्यज्ञातकर्तृकं, तच्छरणीकृत्य श्रीहरिभद्रमुरिप्रमुखवचांस्यप्रमाणीकुर्वाणस्य तव दाक्ष्यं त्वय्येव विश्रान्तं भवतु, | माऽन्यत्रेत्यस्मदाशीः। एवं दोधकत्रिकाभिप्रायमप्यजानानस्तिलकाचार्य उत्सर्गापवादरचनया रत्नाकरवत् समुद्रवद्गम्भीरमलब्ध| मध्यं गणधरवचोर्थात्तदभिप्रायं कथं जानाति ?, न कथमपीत्यर्थः, तस्मादलमालजालेन त्वत्प्रतिष्ठाकल्पेनेति । एतेन शतपदीकारोक्तमपि निरस्तं बोध्यं, तत्रापि तिलकाचार्यकृतप्रतिष्ठाकल्पसमानकल्पनाया विद्यमानत्वाद्, अत्रैवंविधकिञ्चिद्विस्तरकथनेन राकासार्द्धराकाञ्चलिकागमिककटुकवन्ध्यपाशलक्षणाः षडपि कुपाक्षिकास्तिरस्कृताः,तेषां प्रायस्तीर्थप्रद्वेषेण साधुप्रतिष्ठानिषेधपरत्वेन तिलकाचार्यकृतप्रतिष्ठाकल्पाभास एव शरणमभूत् , स चागमयुक्त्या तिरस्कृत इति गाथार्थः ॥५२॥ अथ गृहिप्रतिष्ठायां प्रसङ्गतो लोकप्रसिद्धमपि दोषमाहन मुणइ मूढो पडिमा पइडिआ सावरण तप्पुरओ।इरिआपमुहं किरिअं कुणंति कह साहुणो निउणा॥५३॥
॥१७॥