SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ दिगंबरे समित्यभाव: श्रीप्रव- चरणुवयारो पंचहिं समिईहिं होइ तीहिं गुत्तीहिं । सो पुण तुह भमरीए भट्ठो दिट्ठो मए सक्खं ॥ ६ ॥ चनपरीक्षा चरणोपचार:-चारित्राराधना ईर्यासमित्यादिभिः पञ्चभिः समितिभिः मनोगुप्यादिमिस्तिसृमिर्गुप्तिमिश्च भवति, स च तव २विश्रामे मते 'भ्रमर्यां' मिक्षाचयाँ भ्रष्टो-भ्रंशमापन्नो मया साक्षात्प्रत्यक्षं दृष्टः,प्रत्यक्षापलापस्य केनापि कर्तुमशक्यत्वादिति गाथार्थः॥६०॥ ॥११२॥ अथ समित्याद्यभावं दर्शयन्नाहजह जामाइअपमुहा पाहुणया अण्णउत्थिआ अहवा। उद्दिहमोअणाई भुंजंति तहेव तुम्हंपि ॥ ६१ ॥ यथा जामातृप्रमुखाः प्राघूर्णका अथवा अन्यतीर्थिकाः 'अद्यास्मद्गृहे भोक्तव्य'मित्याद्यादरवचनरञ्जिता 'उद्दिष्टं तनिमित्तमेवो| पस्कृतं यदोदनादि यावद्भोजनोपयोगि शाल्यादि सकलवस्तुजातं तद्भुङ्क्ते तथैव त्वमपि, अस्मद्गृह एव गोचरी कर्त्तव्येति निमन्त्रPणरञ्जितः प्राघूर्णक इव एकत्र भुञ्जानः कथं समितिगुप्तिभाक् ?, न कथमपीत्यर्थः, समितीनामभावत्त्वेवं-सदोषमाहारं भुञ्जान स्यानेषणीयभोजित्वात् कथं तद्विरोधिनी एषणासमितिः?,अनेषणीयं भुक्त्वा च निहोषभोजित्वमात्मनः ख्यापयन् असत्यभाषित्वात् न भाषासमितिमान् , आदाननिक्षेपणासमितिस्तु संयमोपकारिवस्त्रपात्रादिधर्मोपकरणमुपदधत एव भवति, यदागमः-"ओहोवहो| वग्गहिरं, भंडगं दुविहं मुणी। गिण्हंतो निखिवंतो वा,पउंजिज्ज इमं विहिं॥१॥चखुसा पडिलेहिता, पमजिज जयं जई। आइए निखिविजावा, दुहओवि समिए सया॥२॥ (७१९३३-४)त्ति" तथा पश्चमीसमितिरुच्चाराद्याहारपर्यन्तं परिष्ठापयत एव भवन्ति, यदागमः-"उच्चारं पासवणं, खेलं सिंघाणजल्लिअं । आहारं उवहिं देह,अण्णं वावि तहाविहं॥१॥ विच्छिन्नं दूरमोगाढे,नासन्ने बिलवञ्जिए । तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥२॥"त्ति (७/९३५-६) श्रीउत्तरा० २४ । भोजनावसरे घृतादिसंपृक्तक्षरद ॥११२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy