SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा रविश्रामे ॥ ७३ ॥ त्यागापत्तेः, तथा निद्रादिप्रमादवशेन विस्मरणादिभयहेतुर्ज्ञानं, शङ्कादिना विनाशभयहेतुर्दर्शनं, प्रमादाचरणादिना मालिन्यभयहे| तुश्चारित्रमिति ज्ञानाद्यपि परिहरणीयं स्यात्, आस्तामन्यद्-भोजनेऽप्यजीर्णादिभयं भवत्येवेति भोजनमपि परिहरणीयं संपद्येत ३ ।, अथ वस्त्रं क्रोधादिहेतुरिति चतुर्थो विकल्पः सोऽप्यकिञ्चित्कर एव, शरीरादेरपि क्रोधादिहेतुत्वेन त्यागापत्तेः, तत्कथमिति चेत् शृणु, आस्तामन्यत् परमहो अयं पापात्मा कुलवधूनामप्यवाच्यं दर्शयन् न लज्जत इत्यादितथाविधाऽऽर्यजनोक्तिस्तव कर्णपथमवतीर्णा तवैव क्रोधोत्पत्तिहेतुर्जायते, तन्निदानं च नमरूपतया बीभत्सं त्वदीयं शरीरमेव, तदभावे च तथाविधोक्तेरेवासंभवात् कुतः क्रोधा| देरुत्पत्तिः १, एवमाहारविधावपि वाच्यं तत्राप्यमनोज्ञाहारावाप्तौ त्वद्विकल्पितान्तरायपाते चानुपयोगिपुरुषविषयकः क्रोध उत्पद्यत एव, न चैतदसंभवीति वाच्यं, दशमगुणस्थानकं यावत्साधोरपि संज्वलनक्रोधादेरुदयात्, तन्निमित्तं चोक्तं कारणजातमेव, नान्यद् एवं ज्ञानादावपि भाव्यं, ननु ज्ञानात् क्रोधोत्पत्तिः कथमितिचेत्तर्हि वस्त्रात् क्रोधोत्पत्तिः कथमिति वयं पृच्छामः १, तत्र वस्त्रा| पगमे चौरादिविषयकः क्रोधो वस्त्रनिमित्तक एवेति ममाशय इति चेत् तर्हि कश्वित्पाण्डित्यादिगुणैर्विख्यातः क्वचिद्राजसभादावपरप| ण्डितेन पराभूतोऽपभ्राजनां प्राप्तः खजेतरि पण्डिते क्रोधभाक् स्यात्, तत्र क्रोधनिदानं श्रुतज्ञानमेव, अनधीतस्य तथापराभृतेरेवासंभवात् कुतः क्रोधादिः १, एवं परवादिजये मानहेतुरपि ज्ञानमेव, ततः श्रुतमपि नाध्ययनीयं स्यात्, बाहुबल्यादिदृष्टान्तेन चारित्रमपि मानहेतुः, कथमन्यथा भ्रातृवन्दनभीत्या वर्ष यावत्कायोत्सर्गे तस्थौ, तन्मानकारणं च चारित्रमेव तदप्यनुपादेयं स्यात्, | तथा सूरिपदादिकमपि कस्यचिन्मानहेतुत्वेन वस्त्रादिवन्नोपादेयं संपद्येत दिगम्बरमते इत्यलं प्रपञ्चनेति ४ । अथ दुर्ध्यानहेतुत्वं | चेतिविकल्पः सोऽप्यनुचित एव, तथाहि - "से किं तं रोद्दज्झाणे ?, रोद्दज्झाणे चउबिहे पं० वं ० - हिंसाणुबंधी १ मोसाणुबंधी २ तेआ क्रोधादिहेतुत्वादिनिरासः ॥ ७३ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy