________________
श्रीप्रवचनपरीक्षा २ विश्रामे
॥ ६७ ॥
| दीपकाभिधानमुद्यानं, तत्रार्यकृष्णनामानः सूरयः समागताः, तस्मिंश्च नगरे सहस्रमल्लो राजसेवकः, स च राजप्रसादाद्विलासान् कुर्वनगरमध्ये पर्यटति, रात्रेश्व प्रहरद्वयेऽतिक्रान्ते गृहमागच्छति, तदैतदीयभार्या तन्मातरं भणति - निर्वेदिताऽहं त्वत्पुत्रेण, न | खल्वेष रात्रौ वेलायां कदाचिदप्यागच्छति, तत उजागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि ततस्तया प्रोक्तं - वत्से ! यद्येवं तर्हि त्वमद्य स्वपिहि, स्वयमेवाहं जागरिष्यामि, ततो वध्वा तथैव कृतम्, इतरस्यास्तु जाग्रत्या रात्रिप्रहरद्वयेऽतिक्रान्ते | शिवभूतिना समागत्य प्रोक्तं - द्वारमुद्घाटयत, ततः प्रकुपितया मात्रा प्रोक्तं- दुर्णयनिघे ! यत्रैतस्यां वेलायां द्वाराण्युद्घाटितानि | भवन्ति तत्र गच्छ, न पुनरेवं त्वत्पृष्ठलग्नः कोऽप्यत्र मरिष्यति, ततः कोपाहङ्काराभ्यां प्रेर्यमाणोऽसौ निर्गतः, पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः, तत्र साधवः कालग्रहणं कुर्वन्ति, तेषां च पार्श्वे तेन वंदित्वा व्रतं याचितं, तैश्व राजवल्लभो मात्रादिभिरमुत्कलितश्चेति व्रतं न दत्तं, ततः खेलमल्लकाद्रक्षां गृहीत्वा स्वयमेव लोचः कृतः, साधुभिर्लिङ्गं समर्पितं, विहृताथ सर्वेऽप्यन्यत्र, | कालान्तरेण पुनरपि तत्रागताः, ततो राज्ञा शिवभूतये बहुमूल्यं कम्बलरत्नं दत्तं, तत आचार्यैः शिवभूतिरुक्तः - किं तवानेन साधूनां | मार्गादिष्वनेकानर्थहेतुना गृहीतेन ?, ततस्तेन गुर्वप्रतिभासेनापि संगोप्य मूर्छया तद्विधृतं, गोचरचर्यादिभ्यश्रागतः प्रत्यहं तदसौ संभालयति नतु किंचिदपि व्यापारति, ततो गुरुभिर्मूच्छितोऽयमत्रेति ज्ञात्वा अन्यत्र दिने तमनापृच्छयैव बहिर्गतस्य परोक्षे कम्बलरत्नं पाटयित्वा साधूनां पादप्रोञ्छनकानि कृतानि, ततो ज्ञातव्यतिकरः कषायितोऽसौ तिष्ठति, अन्यदा च सूरयो जिनक|ल्पिकान् वर्णयन्ति, तद्यथा - " जिणकपिआ य दुविहा पाणीपाया पडिग्गहधरा य । पाउरणमपावरणा इक्किका ते भवे दुर्विहा ॥१॥ दुग १ तिग २ चउक्क ३ पणगं ४ नव ५ दस ६ इकारसेव ७ बारसगं ८ । एए अट्ठविगप्पा जिणकप्पे हुंति उवहिस्स ॥ २॥त्ति"
दिगंबरोत्प| चिकालादि
॥ ६७ ॥