________________
CH
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५९७॥
७ शतके उद्देशः१० पापकल्याण विपाक:
O
RROA%
'अस्थि ण'मित्यादि, अस्तीदं वस्तु यदुत जीवानां पापानि कर्माणि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः 'थालीपागसुद्धंति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकम्, अन्यत्र हि पक्कमपक्वं वा न तथाविधं स्यादितीदं विशेषणं, शुद्ध-भक्तदोषवर्जितं, ततः कर्मधारयः, स्थालीपाकेन वा शुद्धमिति विग्रहः, 'अट्ठारसवंजणाउलं'ति अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैःशालनकैस्तकादिभिर्वा आकुलं-सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तव्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते-"सूओ १ दणो २ जवनं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ॥१॥ होइ रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥ २॥" तत्र मांसत्रयं-जलजादिसत्कं 'जूपो' मुद्गतन्दुलजीरककटुभाण्डादिरसः 'भक्ष्याणि' खण्डखाद्यादीनि 'गुललावणिया' गुडपर्पटिका लोकप्रसिद्धा, गुडधाना वा, मूलफलाइत्येकमेव पदं 'हरितक' जीरकादि 'डाको' वास्तुलकादिभर्जिका 'रसालूः मजिका, तल्लक्षणं चेदम्-"दो घयफला महुपलं दहियऽस्सद्धाढयं मिरिय वीसा । दस खंडगुलपलाई एस रसालू निवइ जोगो।१॥" | 'पानं' सुरादि 'पानीयं जलं 'पानक' द्राक्षापानकादि शाकः-प्रसिद्ध इति, 'आवाय'त्ति आपातः-तत्प्रथमतया संसर्गः 'भद्दए'त्ति | मधुरत्वान्मनोहरः 'दुरूवत्ताए'त्ति दुरूपतया 'जहा महासवए'त्ति षष्ठशतस्य तृतीयोद्देशको महाश्रवकस्तत्र यथेदं सूत्रं तथेहा| प्यध्येयम् , 'एवामेव'त्ति विषमिश्रभोजनवत् 'जीवाणे भंते ! पाणाइवाए'इत्यादौ भवतीतिशेषः 'तस्स णति तस्य प्राणा|तिपातादेः 'तओ पच्छा विपरिणममाणे ति 'ततः पश्चात् आपातानन्तरं 'विपरिणमत्' परिणामान्तराणि गच्छत् प्राणाति| पातादि-कार्य कारणोपचारात् प्राणातिपातादिहेतुकं कर्मेति 'दूरुवत्ताए'त्ति दुरूपताहेतुतया परिणमति, दूरूपतां करोतीत्यर्थः ।
%
||५९७॥