________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ५७४॥
७ शतके उमेशः ८ कर्मणोदुःख तासंज्ञानारकदुःखं सू० २९५
| भयं सोगं ॥ ( सूत्रं २९५)॥
'नेरइयाण'मित्यादि, 'सब्बे से दुक्खे'ति दुःखहेतुसंसारनिबन्धनत्वाद् दुःखं 'जे निजिन्ने से सुहे'त्ति सुखस्वरूपमोक्षहेतुत्वाद्यनिजीणं कर्म तत्सुखमुच्यते । नारकादयश्च सचिन इति सञ्ज्ञा आह-'कति णमित्यादि, तत्र सञ्ज्ञानं सज्ञा-आभोग इत्यर्थः मनोविज्ञानमित्यन्ये संज्ञायते वाऽनयेति सञ्चा-वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा-'आहारसन्ने'त्यादि, तत्र क्षुद्वेदनीयोदयात् कावलिकाद्याहारार्थ पुद्गलोपादानक्रियैव संज्ञायतेऽनया तद्वानित्याहारसज्ञा, तथा भयमोहनीयोदयाद्भयोभ्रान्तदृष्टिवचनविकाररोमाञ्चोझेदादिक्रियैव सज्ञायतेऽनयेति भयसज्ञा, तथा पुंवेदायुदयान्मैथुनाय स्याद्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव सज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभोदयात्प्रधानभवकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रियैव सज्ञायतेऽनयेति परिग्रहसज्ञा, तथा क्रोधोदयादावेशगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव सज्ञायतेऽनयेति क्रोधसञ्जा, तथा मानोदयादहङ्कारात्मिकोत्सेकक्रियैव सञ्ज्ञायतेऽनयेति मानसज्ञा, तथा मायोदयेनाशुभसक्केशादनृतसंभाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, | तथा लोभोदयाल्लोभसमन्विता सचित्तेतरदन्यप्रार्थनैव संज्ञायतेऽनयेति लोभसञ्ज्ञा, तथा मतिज्ञानावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव सज्ञायते वस्त्वनयेति ओघसंज्ञा, एवं शब्दाद्यर्थगोचरा विशेषावबोधक्रियैव सज्ञायतेऽनयेति लोकसंज्ञा, ततश्चौघसज्ञा दर्शनोपयोगो लोकसज्ञा तु ज्ञानोपयोग इति, व्यत्ययं त्वन्ये, अन्ये पुनरित्थमभिदधति-सामान्यप्रवृत्तिरोधसंज्ञा लोकदृष्टिस्तु लोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबन्धन
॥५७५॥