________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ५
॥५७१॥
वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु 'जे 'ति यः प्राणी सञ्ज्ञित्वेनोपायसद्भावे च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'त्ति न समर्थो विना प्रदीपेनान्धकारे रूपाणि 'पासित्तए'त्ति द्रष्टुम् एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, 'पुरओ'ति अग्रतः 'अणिज्झाएत्ताणं'ति 'अनिद्धयाय' चक्षुरव्यापार्य 'मग्गओ'त्ति पृष्ठतः 'अणवयक्खित्ताणं ति 'अनवेक्ष्य' पश्चाद्भागमनवलोक्येति ॥ अकामनिकरणं वेदनां वेदयतीत्युक्तम्, अथ तद्विपर्ययमाह - 'अस्थि ण' मित्यादि, 'प्रभुरपि' संज्ञित्वेन रूपदर्शनसमर्थोऽपि 'पकामनिकरणं'ति प्रकामः - ईप्सितार्था प्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभिलाषः स एव निकरणंकारणं यत्र वेदने तत्तथा, अन्ये त्वाहुः - प्रकामे - तीव्राभिलाषे सति प्रकामं वा अत्यर्थं निकरणम् - इष्टार्थसाधक क्रियाणामभावो यत्र तत् प्रकामनिकरणं तद्यथा भवती-येवं वेदनां वेदयतीति प्रश्नः, उत्तरं तु 'जे ण' मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तुं तद्गतद्रव्यप्राप्त्यर्थे सत्यपि तथाविधशक्तिवैकल्यात्, अंत एव च यो न प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ॥ सप्तमशते सप्तमः ||७-७||
क
सप्तमोद्देशकस्यान्ते छानस्थिकं वेदनमुक्तम्, अष्टमे त्वादावेव छद्मस्थवक्तव्यतोच्यते, तत्र चेदं सूत्रम् -
उत्थे णं भंते! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं एवं जहा पढमसए चउत्थे उद्देसए तहा भाणिव्वं जाव अलमत्थु || (सूत्रं २९२ ) ॥ से णूणं भंते ! हस्थिस्सय कुंथुस्स य समे चैव जीवे ?, हंता गोयमा ! हत्थस्स कुंथुस्स य, एवं जहा रायप्प सेणइज्जे जाव खुड्डियं वा महालियं वा से तेणट्टेणं गोय
७ शतके
उद्देशः ८
अकामप्र
कामवेदना
सू० २९२
प्र०आ०३१२
॥५७१ ॥