SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५२४॥ 'कं समयं अणाहारए'ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति १ इति प्रश्नः, उत्तरं तु यदा जीव ऋजुगत्योत्पादस्थानं गच्छति तदा परभवायुषः प्रथम एव समये आहारको भवति, यदा तु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्तौ तदाहरणीयपुद्गलानामभावाद्, अत आह- 'पढमे समए सिय आहारए सिय अणाहारए'चि, तथा यदैकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह- 'बीयसमये सिय आहारए सिय अणाहारए'चि, तथा यदा वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये स्वाहारकः, यदा तु वक्रत्रयेण चतुर्भिः समयैरुत्पद्यते तदाऽऽये समयत्रयेऽनाहारकचतुर्थे तु नियमादाहारक इतिकृत्वा 'तइए ममए सिय' इत्याद्युक्तं, वक्रत्रयं चेत्थं भवति - नाख्या बहिर्विदिग्भ्यवस्थितस्य सतो यस्याधोलोकादूर्ध्वलोके उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमेकेन समयेन विश्रेणितः समश्रेणीं प्रतिपद्यते, द्वितीयेन नाडीं प्रविशति, तृतीयेनोर्ध्वलोकं गच्छति, चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते, इह चाये समयत्रये वक्रत्रयमवगन्तव्यं, समश्रेण्यैव गमनात्, अन्येत्वाहुः - वक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते, तत्र समयत्रयं प्राग्वत्, चतुर्थे समये तु नाडीतो । प्र०आ०२८७ निर्गत्य समश्रेणिं प्रतिपद्यते, पञ्चमेन तूत्पत्तिस्थानं प्राप्नोति, तत्र चाधे समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं, प्रायेणेत्थमनुत्पतेरिति । 'एवं दंडओ'ति अमुनाऽभिलापेन चतुर्विंशतिदण्डको वाच्यः, तत्र च जीवपदे एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यं, शेषेषु तृतीयसमये नियमादाहारक इति, तत्र यो नारकादिवस सेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वं, तथाहि - यो मत्स्यादिर्भरतस्य ७ शतकें उद्देशः १ अनाहारा ल्पाहारादि सू० २५९ ॥५२४ ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy