SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५१०॥ भंते! किं जाइनामगोयनिउत्ताउया १२ जाव अणुभागनामगोयनिउत्ताउया ?, गोयमा ! जाइनामगोयनिउत्ताउयावि जाव अणुभागनाम गोयनिउत्ताउयावि, दंडओ जाव वैमाणियाणं || (सूत्रं २४९) || तत्र 'जातिनामनिहत्ताउए ति जातिः एकेन्द्रियजात्यादिः पञ्चधा सैव नामेति-नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः, निषेकश्च कर्म्मपुद्गलानां प्रतिसमयमनुभवनार्थं रचनेति १, 'गतिनाम - निधत्ताउति गतिः - नरकादिका चतुर्धा शेषं तथैव २, 'ठिइनामनिधत्ताउए' ति स्थितिरिति यत्स्थातत्र्यं कचिद्विवक्षितभावे | जीवेनायुः कर्मणा वा सैव नाम - परिणामो धर्मः स्थितिनाम तेन विशिष्टं निधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायुः ३, अथवेह सूत्रे जातिनामगतिनामात्रगाहनामग्रहणाज्जातिगत्यवगाहनानां प्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणातु तासामेत्र स्थित्यादय उक्तास्ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नाम - नामक स्थितिनाम तेन सह निधत्तं यदायुस्तत्स्थितिनामनिधत्तायुरिति ३, 'ओगाहणानामनिधत्ताउएति अवगाहते यस्यां जीवः साऽवगाहनाशरीरं औदारिकादि तस्या नाम - औदारिकादिशरीरनामकर्मेत्यवगाहनानाम अवगाहनारूपो वा नाम - परिणामोऽवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुः ४, 'परसनामनिहत्ताउए'त्ति प्रदेशानां - आयुः कर्म्मद्रव्याणां नाम - तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह निघत्तमायुस्तत्प्रदेशनामनिधत्तायुरिति५, 'अणुभागनामनिधत्ताउएति अनुभाग- आर्युद्रव्याणामेव विपाकस्तल्लक्षण एव नाम- परिणामोऽनुभागनाम अनुभागरूपं वा नामकर्म अनुभा गनाम तेन सह निघतं यदायुस्तदनुभागनामनिधत्तायुरिति ६ । अथ किमर्थे जात्यादिनामकर्म्मणाऽऽयुर्विशेष्यते ?, उच्यते, ६ शतके. उद्देशः ८ जात्यादिनिधत्तायुः सू० २४९ ॥५१०॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy